SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३० दर्पणपरीक्षासहिते भूषणासरेआवश्यके प्रेरणेत्यर्थः । आमन्त्रणम् , कामचारानुज्ञा । अधीष्टःसत्कारपूर्वको व्यापारः। दर्पणः त्यनुकूलो व्यापारः प्रेरणेति पर्यवस्यतीति । अधिकमग्रे वक्ष्यते । .. तत्र वैदिकमुदाहरणम्-'स्वर्गकामो यजेत इत्यादि। स्वर्गकामाभिन्नकर्त्तकयागभावना स्वर्गादीष्टसाधनमिति वैयाकरणमते बोधः । भावनायामिष्टसाधनत्वं तु प्रत्यात्या स्वर्गकामस्यैव, तादृशश्चाहमिति अभिसन्धाय यागादौ नियोज्यस्य प्रवृत्तिनिवहति । लौकिके तु 'जलमाहर' इत्यादि बोधः स्वयमूह्यः॥ - नियोगकरणमिति । 'विप्रं निमन्त्रयत' इत्यादितो विप्राश्रयकप्रवृत्तिजनकभावनाबोधेन प्रकृते विनियोगपदार्थः प्रवृत्तिस्तत्करण-तदनुकूलो व्यापार इत्यर्थः । *आवश्यक इति । श्राद्धभोजनादिश्च तथा । *प्रेरणेति । प्रवर्त्तनेत्यर्थः । अस्य दौहित्रादेरित्यादिः । तत्राप्रवृत्तस्य प्रवृत्त्यनुकूलव्यापार इति यावत् । यथेह-'इह भुञ्जीत भवान्' इत्यादि। .. ___ *कामचारानुज्ञेति । स्वेच्छया प्रवृत्तस्येतरत्र प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयकप्रवृत्त्यनुकूलो व्यापार इत्यर्थः । यथा-'इहासीताऽऽरब्धं कुरुत तत्त्कुरुष्व यथा हितम्' इत्यादि । उपवेशनादिव्यापार इष्टसाधनताज्ञानात् प्रवृत्तावितरत्राप्रवृत्तिरर्थतः फलति । . *सत्कारपूर्वको व्यापार इति । अध्यापनादिव्यापारे सम्मानपूर्वकप्रवृत्त्यनुकूलो व्यापारोऽधीष्टपदार्थ इत्यर्थः । इयमेवाऽभ्यर्थनेच्युते । यथा-'माणवकमध्यापयाइति उक्तेष्विष्टसाधनत्वे-अनुकूलत्वं च-प्रवृत्तिजनकतावच्छेदककोटिप्रविष्टतया बोध्यम् ॥ *सम्प्रधारणमिति । उपस्थितक्रिययोर्मध्ये एकतरक्रियाधर्मिकेष्टसाधनत्वनिर्णयेच्छेत्यर्थः। यथा-कि भो वेदमधीयीय उत तर्कमिति । स्वोद्देश्यकत्वसम्बन्धेन सम्बोध्यविशिष्टा मन्निष्ठा च वेदाध्ययनताध्ययनान्यतरभावनेष्टसाधनत्वप्रकारकनिर्णयेच्छाविषय इति बोध एवमग्रेऽपि। विधिः प्रेरणमिति । प्रेरणम्-प्रवर्तनमित्यर्थः । अप्रवृत्तप्रयोज्यस्याऽज्ञातस्वाऽभिलषितोपाय इष्टसाधनताबोधनमिति यावत् । अपकृष्टोद्देश्यकतादृशेष्टसाधनत्वबोधविषयाऽप्रयुक्तं लिङादिघटितं वाक्यमेवाऽऽज्ञोपदेशपदाभ्यां व्यपदिश्यते । तदेवाऽऽह-*भृत्यादेरिति । आदिना शिष्यादिपरिग्रहः। तत्र लौकिकमुदाहरणं, भवाञ्जलमानयेदित्यादि । वैदिके-'स्वर्गकामो यजेत' इत्यादि । *नियोगकरणमिति । निमन्त्र्ययते नियुज्यतेऽनेनेति व्युत्पत्त्या नियोगानुकूलो व्यापारो निमन्त्रणपदार्थ इत्यर्थः॥ *आवश्यक इति । श्राद्धभोजनादावित्यर्थः । प्रेरणेत्यस्य दौहित्रादेरित्यादिः । तथाचावश्यके श्राद्धभोजनादौ दौहित्रादेरिष्टसाधनताबोधनं निमन्त्रणमिति फलितम्। यथेह भुञ्चीत भवानिति । *कामचारेति । स्वाभिलषिते कामचारेण प्रवृत्तस्येष्टसाधनताबोधनमित्यर्थः । *यथेहासीतेति । अनुज्ञातुः प्रवृत्तिप्रयोजनस्येतरप्रवृत्तिप्रबन्धेनैतत्प्रवृत्तिविषय इष्टसाधनताबोधनम् । यथारब्धं कुरुत, तत्कुरुष्व यथा हितमिति च एतदादि सर्वोपलक्षणम् आमन्त्रणम् । *सत्कारपूर्वको व्यापार इति । सम्मानपूर्वकाध्यापनादिव्यापार इष्टसाधनताबो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy