________________
लकारार्थनिर्णयः ।
१२९ लडादिक्रमेण ङितामर्थमाहह्योभूते प्रेरणादौ च भूतमात्रे लङादयः॥ . . सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ् स्मृतः ॥२३॥
लङर्थमाह-ह्योभूत इति* ॥ अनद्यतने भूत इत्यर्थः। “अनद्यतने लङ् ” (पा०सू०३।१।१११) इति सूत्रात् । यथा-'अस्य पुत्रोऽ भवत्' इत्यादि।
लिङर्थमाह-*प्रेरणादाविति* ॥ “विधिनिमन्त्रणामन्त्रणाधीष्टसप्रश्नप्रार्थनेषु लि (पासू०३।२।१६१)इति सूत्रात् । तत्र-विधिःप्रेरणम् , भृत्यादेनिकृष्टस्य प्रवर्त्तनम् । निमन्त्रणं नियोगकरणम् ,
दर्पणः ह्यः पदस्याव्यवहितातीतदिवसे रूढतया तदात्मककालस्य लङर्थत्वेनैकदिनान्तरितभूते लङनुपपत्तिरत आह-*अनद्यतन इति । तथाच ह्यःपदं लक्षणयाऽनद्यतनत्वेनानद्यतनमात्रबोधकमिति नोक्तदोषावकाशः। एवं श्चोभाविनीत्यत्रापि बोध्यम् । ___ *अस्य पुत्र इति। वर्तमानध्वंसप्रतियोग्यनद्यतनकालवृत्तिरेतत्सम्बन्धिपुत्रकर्तकोत्पत्त्यनुकूलो व्यापार इति बोधः। अध्यास्तेत्यादौ तु भूताऽनद्यतनत्वमात्रविवक्षया लपपत्तिः । सूत्राद् विध्यादीनां लिङर्थत्वप्रतीतेः, कथं प्रेरणादेर्विध्यर्थत्वमत आह-*तत्रेति । तेषु मध्ये इत्यर्थः। विधिः प्रेरणमिति* | प्रेरणापर्यायो विधिशब्दइत्यर्थः । प्रेरणाया लिङादिशब्दस्वरूपतां वदतां मतं निराकर्तुं प्रेरणायाः स्वरूपं दर्शयति-*भृत्त्यादेरित्यादि। __ अयम्भावः-यद्विषकत्वेन ज्ञानस्य प्रवृत्तिजनकत्वं सैव प्रवर्त्तना । तादृशविषयतानिरूपकत्वं चेष्टसाधनताया एव, न तु लिङादानाम् । तद्विषयकत्वेनैव स्वपरज्ञानात्प्रवृत्तेः सर्वसम्मतत्वात्। तद्विषयकज्ञानात् प्रवृत्त्यनुदयात् । सा यदि वक्त्रपेक्षयाऽप्रकृष्टोदूदेश्यकप्रवर्तकज्ञानविषयीभूता तदा प्रेरणेत्युच्यते । अन्यादृक् तु निमन्त्रणादिपदव्यपदेश्या। तथाच स्वाभिलषितोपायाऽज्ञानादप्रवृत्तापकृष्टप्रयोज्यस्योपायविषयकप्रवृ.
परीक्षा *ह्यो भूत इति । अत्र ह्यःपदं नातीतदिनान्तराव्यवहितदिवसपरम् । परथोऽभवदित्यत्रानुपपत्तेः। किन्तु अनद्यतनमात्रस्य बोधकमित्याशयेनाह-*अनद्यतन इति । *भूत इति । एवं चातीतदिवसमात्रमादाय तादृशप्रयोगस्योपपत्तिः । अद्यतनभिन्नत्वं चानद्यतनत्वम् । अद्यतनत्वं च-स्वाव्यवहितोत्तरत्वसम्बन्धेन वर्तमानध्वंसप्रतियोगिरात्र्यविशिष्टत्वे सति वर्तमानप्रागभावप्रतियोगिरात्र्यधेन स्वाव्यवहितपूर्वत्वसम्बन्धेन विशिष्टं यद्दिनं तत्त्वम् । *अस्य पुत्रोऽभवदित्यादीति । प्रकृतशब्दप्रयोगाधिकरणदिनप्राग्वृत्तिव्यवहितमव्यवहितं वा तत्र सर्वत्रायं प्रयोगो भवति । वर्तमानध्वंसप्रतियोगि अनद्यतनकालवृत्तिरेतत्सम्बन्धिपुत्रकर्तृकोत्पत्यनुकूलो व्यापार इति बोधः। . ननु सूत्राद्विध्यादीनां लिङर्थत्वं प्रतीयत इति कथं प्रेरणाया लिङर्थत्वमित्याह
विधिः प्रेरणमिति। प्रेरणं च-प्रवर्तनमेव । तदतिरिक्तांशस्य प्रकरणादिना लाभसम्भवात् , तत्वंन्तु-प्रवर्तनात्वावच्छिन्नस्यैवेत्याशयेनाह-*प्रवर्तनात्वेनेति ।
१७ ९० प०