SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १२८ दर्पणपरीक्षासहिते भूषणसारेप्रार्थनादाविति । मादिना विध्याद्याशिषो गृह्यन्ते । “आशिषि लिङ्लोटी" (पा०सू०३।३।१७३) "लोट् च” इति (पा०सू०३।३।१६२) सूत्राभ्यां तथाऽवगमात् । यथा- भवतु ते शिवप्रसादः' इत्यादौ । एतयोरो लिङर्थ एव, त्रयाणां समानार्थत्वादिति तन्निर्णयेनेव निर्णयः ॥२२॥ दर्पणः कपालनाशजन्यघटनाशस्थले, इह कपालेऽद्य घटध्वंसो भविष्यतीति प्रयोगाऽऽपत्तेर्घटरूपप्रतियोग्यात्मकघटध्वंसप्रागभावस्य कपाले सत्त्वादेव श्वो भाविन्यद्य भविष्यतीति प्रयोगप्रसङ्गश्च । अद्यतनकालवृत्तित्वस्य प्रागभावे सत्त्वात् । तथा-भवने श्वः समुस्पद्य प्राङ्गणे परश्वो गमिष्यति मैत्रे, प्राङ्गणे परश्वो भविष्यतीति प्रयोगाऽऽपत्तिः । उत्पत्तिमतो मैत्रस्य प्राङ्गणवृत्तित्वात् , परश्वस्तनकालवृत्तित्वाच्च । यथोक्ते तु तस्य परम्चस्तनकालवृत्तित्वेऽप्युत्पत्तेस्तत्कालावृत्तित्वान्न कश्चन दोषः।। . एवञ्च वर्तमानप्रागभावप्रतियोग्युत्पत्त्यनुकूलो घटाश्रयको व्यापार इति वैयाकरणमते बोधः । तथावोत्पत्त्यघटिते भविष्यत्त्वे लडादेः शक्तिलाघवात्तदघटिते तु लक्षणेति न नङ्ग्यतीत्याद्युक्तस्थले उत्पत्तिबोधानुपपत्तिरिति ॥ विध्याद्याशिषाविति। आशीस्तु सम्बोध्यरहितविषयकलोडायन्तशब्दप्रयोक्त्रिच्छा। *भवतु ते इति । हितविषयकमदिच्छाविषयत्वसम्बन्धिशिवप्रसादकर्तकं भवनमिति बोधः । एतयोरिति । लेट्लोटोरित्यर्थः। *त्रयाणाम् । लेट्लोटलिडामित्यर्थः । *तन्निर्णयेनैवेति । लिङर्थनिर्णयेन इत्यर्थः ॥ २२ ॥ परीक्षा इदमत्र बोध्यम्-इहाय घटो भविष्यतीत्यादौ भूधात्वर्थ उत्पत्यनुकूलो व्यापारस्तघटकोत्पत्तौ देशस्य कालस्यान्वयाधिकरणत्वेनान्वयो न घटे । इह चत्वरे श्वः समुत्पद्यपरचो गोष्ठे गमिष्यति घटे गोष्ठे, परचो घटो भविष्यतीति प्रयोगापत्तेः । घटे परथः कालवृत्तित्वगोष्ठवृत्तित्वयोः सत्वात् । वर्तमानप्रागभावप्रतियोगिसमये उत्पत्तिमत्वस्य सत्वाच्च । एवं च धातुनोत्पत्तिलाभे टुडर्थभविष्यत्वस्य वर्तमानप्रागभावप्रतियोगिसमये वृत्तित्वरूपत्वमेवास्तु, न तु तत्रोत्पत्तेः प्रवेशो, गौरवात् । एवं चोत्पत्तेः शाब्दबोधे वारद्वयं भानापत्तिरपि नः तथा धात्वर्थे सप्तम्यन्तार्थत्वनियमस्याप्युपपत्तिरिति । विध्याशिषाविति । अत्राशीः प्रयोक्तृनिष्ठा या हितप्राप्तिविषयकेच्छा सैव । हितं च स्वस्य परस्य वेत्यत्र नाग्रहः । तस्या इच्छाया 'भवतु ते शिवप्रसादः' इत्यत्र धात्वर्थे शिवप्रसादकर्तृकभवनेऽन्वयो विषयतया बोध्यः। वक्तृसमवेततादृशेच्छाविशिष्टत्वसंबन्धिशिवप्रसादकर्तृकं भवनमिति शाब्दबोधः। यत्र तु वक्ता कश्चन नास्ति, किन्तु स्वयमेव भवतु मे शिवप्रसादः' इतीच्छति, तत्र प्रत्यासत्या तस्यामिच्छायां मवृ. त्तित्वस्य भानमित्यभ्युपेयमिति । एतयोः -लेट्लोटोः। *तन्निर्णयेन-लिङर्थनिर्णयेन ॥ २२ ॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy