________________
लकारार्थनिर्णयः।
तस्वञ्च-वर्तमानप्रागभावप्रतियोगिसमयोत्पत्तिमत्त्वम् । ... ... ...
लेटोऽर्थमाह-*विध्यादाविति ॥"लिङ\ लेट" (पासू०३।४।७) इति सूत्रात् । लिङर्थश्च विध्यादिरिति वक्ष्यते । लोडर्थमाह
दर्पणःननु 'अहमेकः प्रथममासं वामि भविष्यामि च' इत्यत्र धात्वर्थसत्तायां वर्तमानप्रागभावप्रतियोगित्वस्य भविष्यत्वस्य बाधात्तदर्थकाद्भविष्यदर्थकप्रत्ययाप्रसक्तिरत आह-*तत्वञ्चेति । वर्तमानप्रागभावप्रतियोग्युत्पत्तिकसमयवत्त्वमिति पाठः । तथाच तदर्थव्यापाराधिकरणस्य कालस्यानित्यराजक्रियाऽऽद्यात्मकस्योक्तभविष्यत्त्वात् तदादायैव लडुपपत्तिरिति यथाश्रुतार्थानुसारिणः॥ ____अन्ये तु-ननु येषां मते नश्यत्यादिधातूनां नाशमात्रमर्थस्तेषां भविष्यत्त्वस्य वर्तमानप्रागभावप्रतियोगित्वसत्वे श्वो भाविनाशके 'परऽश्वो नङ्ख्यतीति प्रयोगापत्तिः । वर्तमाननाशप्रागभावप्रतियोगिनि तन्नाशे परश्वस्तनकालवृत्तित्वसत्त्वात् । - नच परश्वस्तनकालस्य भविष्यत्त्वघटकप्रागभावेऽन्वयाभ्युपगमात्तस्यच तत्प्रागभावे बाधान्नोक्तप्रयोगापत्तिरिति वाच्यम् । तथा सति श्वोभाविनाशकेऽपि श्वो नयतीति प्रयोगाऽनुपपत्तिः। तन्नाशप्रागभावे श्वस्तनकालसम्बन्धबाधादत आह*तत्त्वञ्चति । अत्र समयपदोपादानं कालो लडाद्यर्थ इत्यभिप्रेत्य, न तु तस्य लक्षणे निवेशः, प्रयोजनाभावाद् विद्यमानप्राग्भावप्रतियोग्युत्पत्तिकत्वस्यैव सम्यक्त्वात् । यत्र तूत्पत्तिरेव धात्वर्थस्तत्र तदूधटितमेव तनिर्वक्तव्यम् । अन्यथोत्पत्तेढेधा भानप्रसङ्गात् । एवञ्चोक्तस्थले भविष्यत्त्वघटकोत्पत्ती परश्वस्तनकालवृत्तित्ववाधानोक्तप्र. योगापत्तिरितीत्थमवतारयन्ति ।। ____ अत्रेदमवधेयम्-इहाद्य घटो भविष्यतीत्यादौ देशकालविशेषादेरधिकरणत्वेन धात्वर्थोत्पत्तावेवाऽन्वयः। ननु भविष्यत्त्वघटकप्रागभावे उत्पत्तिमति वा, तथा सति
परीक्षा दिता। एवं चानद्यतनत्वविशिष्टभविष्यत्ववत्यपि यदा भविष्यत्वमात्रविवक्षाः तदा लट् भवतीति बोध्यम् । पूर्वोक्तकालनिष्ठभविष्यत्वघटितं क्रियानिष्ठं भविष्यत्वमाह*तत्वं चेति । ननु यथा यत्किञ्चित् क्रियायामतीतायामपि यत्किञ्चिद्दीपरिवर्तनादिक्रियासत्वकाले पचतीति प्रयोगो भवति, तथा तस्मिन्काले यत्किञ्चित् क्रियाया भविध्यत्वात् पक्ष्यतीति प्रयोगापत्तिः। नचोद्देश्यतावच्छेदकतक्रियात्वावच्छेदेन भविष्यत्वस्यान्वय उपेयत इति वाच्यम् । तथा सति कदापि पक्ष्यतीति न स्यात्। कस्मिनपि काले विक्लित्यनुकूलव्यापारसामान्यप्राग्भावासत्वात्। न च प्रकृतपाकत्वावच्छेदेन तादृशभविष्यत्वस्यान्वयं स्वीकुर्म इति वाच्यम् । उद्देश्यतावच्छेदकस्य प्रकृतपाकत्वस्य शब्दादनुपस्थितेः । एतादृशे विषये धातोस्तादृशेऽर्थे लक्षणायां तु लक्षणैवगौरवरूपदोषप्रयोजिकेति चेद् ? न। पक्ष्यतीत्यादौ तत्तत्पाकतात्पर्यकधातुसमभिव्याहृते लडादिप्रत्ययेन भविष्यत्वप्रकारकशाब्दबोधे जननीये तत्तत्पाकीयाद्यव्यापारविशेष्यकवर्तमानप्रागभावप्रतियोगित्वप्रकारकं ज्ञानं सहकारिकारणमिति स्वीकारात्। यदा तु आद्यव्यापारनाशेऽपि तत्र वर्तमानप्रागभावप्रतियोगित्वभ्रमः, तदा पक्ष्यतीति प्रयोगो भवत्येवेति।