SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ दर्पणपरीक्षासहिते भूषणसारै अनद्यतनातीतत्वयोरभावेन तदर्थकलिडसम्भवात् ॥ लुडर्थमाह-श्वो भाविनीति ॥ अनद्यतने भाविनीत्यर्थः । " अनद्यतने लुटू” ( पा०सू० ३।३।१५) इति सूत्रात् । यथा वो भवितेत्यादौ । १२६ लुडर्थमाह-#भविष्यतीति ॥ भविष्यत्सामान्ये इत्यर्थः । " लुटू शेषे चं" (पा०सू०३।३।१३) इति सुत्रात् । यथा घटो भविष्यतीत्यादौ । दर्पणः सन्निधानात् क्रियापारोक्ष्यं, तद्वदित्यर्थः । लिडसम्भवादिति* । अत्रेदं चिन्त्यम्-न वास्तवं पारोक्ष्यादि लिडादिनियामकम् । 'अध्यास्त सर्वर्त्त सुखामयोध्याम्' इत्यत्र लङोऽसाधुतापतेः । किन्तु वैवक्षिकं तत् । तथा वक्ष्यति च स्वयमेव सारकृत् 'अनयनभूतत्वेन विवक्षिते लङ्, तत्रैव पारोक्ष्यविवक्षायां लिट्‍ इति । प्रकृते चाsनायासनिष्पन्नत्व- शीघ्रनिष्पन्नत्वप्रतीतिफलकभूतानद्यतनत्वविवक्षायाः, एवं सूक्ष्मकालेन करिष्यामि यत्र काले मयाऽपि साक्षात्कर्त्तुमशक्यमिति प्रतीतफलकपारोक्ष्यविवक्षायाश्च सत्त्वाल्लिडुपपत्तिसम्भवादिति ॥ 1 *अनद्यतन इति* । अतीताव्यवहितरात्रिपश्चार्द्धविशिष्टाऽऽगामिरात्रिपूर्वार्द्धापेतं दिनमद्यतनम् । एतद्भिन्न कालत्वमनद्यतनत्वमिति वृत्तिकारादयः । कैयटस्तु - लुड्सूत्रे - ऽतीतरात्रेरन्त्ययामेनाऽऽगामिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इत्यूचे । अत्रेदमवधेयम् - अनद्यतनभूते यदा भूतत्वमात्रविवक्षा ; तदा लुङेव । तेन ह्योऽपाक्षीदित्यादौ भूतत्वमात्रविवक्षायां लुङि, पश्चाद् ह्यः पदेन सम्बन्धे नाद्यतनत्वप्रतीतिरिति न लुडोsसाधुता । एवमनद्यतनभविष्यति भविष्यत्त्वमात्रविवक्षया लट्-श्वो यक्ष्यमाणे- 'देवता यक्ष्यति' इत्यत्र पश्चाद्ध्यनद्यतनत्वप्रतीतिरिति ॥ परे तु साङ्गयागस्य द्वयहात्मकका लसाध्यत्वात्तदधिकरणद्वयहात्मककालस्यानद्यतनत्वाभावेन लुटोsनवसरालडुपपत्तिः । 'अद्यप्रभृति मे द्वारा ! ब्रह्मचर्य भविष्यति' इतिवदित्याहुः ॥ परीक्षा अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति ॥ ' इति वचनात् । तद्वाक्यश्रवणानन्तरं चैत्र आह- 'नाहं कलिङ्ग जगाम इति । तदपह्नवश्व तन्निश्चयोत्पत्तिप्रतिबन्धकज्ञानजनकशब्दः । तस्मिन्नात्यन्तिकत्वं च प्रश्नविषयविपरीतकथनाभावपूर्वकप्रश्नविषयोपपादकविपरीतकथनम् । अत्र कलिङ्गाधिकरणकदर्शनविषयताप्रश्नविषयः तद्विपरीतं न दृष्टोऽस्मि इति कथनम् । तदकरणेऽपि तादृशविषयताया यदुपपादकं तद्देशाधिकरणकं गमनं तस्यैवाभावबोधकशब्दोच्चारणमिति । एवमन्यत्रापि बोध्यम् । *भाविनीति*। भविष्यत्वं च वतमानप्रागभावप्रतियोगित्वम् । अनद्यतनत्वं चाद्यतनभिन्नकालवृत्तित्वम् । अद्यतनं च - अतीतायाः रात्रेः पश्चार्धेनागामिन्याः पूर्वार्धन च सहितो दिवसः । *भविष्यत्सामान्य इति । अत्र सामान्यपदे नानद्यतनत्वस्याविवक्षा प्रतिपा
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy