SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १२५ प्रत्यक्षत्वादिति चेत् ? असङ्गतमेव। व्यासङ्गादिना स्वव्यापारस्य परोक्षत्वोपपादनेऽपि, बहुतरमनःप्रणिधानसाध्यशास्त्रार्थनिर्णयजनकशब्दरचनात्मके ग्रन्थेऽनद्यतनत्वाऽतीतत्वयोविस्तारक्रियायामसत्त्वेन दर्पणः स्यापि इयं सावयवपच्याद्यर्थरूपेत्यर्थान्न तद्विरोधः । सदसतां तेषामित्यस्य विद्यमानाविद्यमानावयवरूपाणामित्यर्थात् समूहात्मकक्रियायाः पारोक्ष्यप्रतिपादनपरत्वान्न हरिवाक्यविरोधोऽपि । अन्यथा क्रिया सदसपेति वदतोव्याघातः स्पष्ट एव । ____ कालस्य प्रत्यक्षत्वाभावेन तदनुवादकभाष्योपष्टम्भोपन्यासोऽपि नावयवानां पारोक्ष्योपपादकः । प्रकृतः कटमित्यत्राप्यवयवातीतत्वमादायैव प्रयोगोपपत्तौ समुदायातीतत्वारोपे मानाभावेन तद्दृष्टान्तासङ्गतिश्च । दान्तिकेऽवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमारोप्य पूर्वपक्षस्य निर्दलत्वापादनमपि स्वाग्रहमूलकमेव । अत एव भाष्ये 'पश्य मृगो धावति' इत्यनेन लौकिकविषयताशाल्यर्थकहशिकर्मत्वं धावतेः प्रतिपादितम् । कथमन्यथा आगारान्तरस्थितस्य न तादृशप्रयोगः । मृगकर्त्तकधावने ज्ञानविषयत्वरूपज्ञानकर्मत्वाऽबाधात् ॥ धावतेः संयोगरूपफलार्थकत्वे व्यापारवाचकत्वाभावादधातुत्वप्रसङ्गश्च । स्वजनकव्यापारगतपौर्वापर्यारोपेण क्रियात्वोपपादने चाप्रत्यक्षत्वापत्तिस्तदवस्थैवेति न किञ्चिदेतत् । तस्मात् पूर्वोक्तमतमेव निराबाधमिति ॥ *व्यासङ्गादिनेति । यथा-"मत्तोऽहं किल विललाप" इत्यत्र मदादिना मनोs परीक्षा *उपपादनेऽपीति*। बहुतरमनःप्रणिधानसाध्य किं ग्रन्थरचनात्मकक्रियायाः इति शेषः। ___अत्रेदं बोध्यम्-प्रागुक्तमतयोः व्यापाराविष्टानामिति मतमेव युक्तमिति प्रतिभाति। क्रियावयवानामपि सावयवत्वात्तेषामपि समूहरूपत्वात्सर्वाऽपि क्रिया परोक्षैव । एवं चेन्द्रियाणां सद्वस्तुग्राहकत्वेन क्रियायाः सदसद्वस्तुरूपायास्तेन प्रत्यक्षस्य न प्रसक्तिः। तदुक्तं हरिणा क्रमात्सदसतां तेषामात्मनां न समूहिनः । सद्वस्तुविषयैर्यान्ति सम्बन्धं चक्षुरादिभिः ॥ इति अत एव भाष्य-अत्यन्तापरदृष्टेत्यत्रात्यन्तपदस्वारस्यसङ्गतिरिति । न च 'पश्य मृगो धावति' इत्यस्य प्रयोगस्यानुपपत्तिरिति वाच्यम् । तत्र देशे ज्ञानसामान्यार्थत्वात् । एवमधिश्रयणं साक्षात्करोमीत्यस्यापि यथा कथञ्चिदुपपत्तिः कार्या। अत एवागारान्तःस्थितयोरेकस्य परं प्रति खुरविक्षेपादिजन्यशब्दश्रवणानन्तरं मृगकर्तृकगमनानुमानानन्तरं पश्य मृगो धावति' इति प्रयोगस्याप्युपपत्तिरिति । किञ्च वास्तवं पारोक्ष्यादि न लिटः प्रयोगे नियामकम् । किन्तुविवक्षानिबन्धनमत एव 'अध्यास्त सर्वर्तुसुखामयोध्याम्' इति लङन्तप्रयोगस्योपपत्तिः । एवं च 'व्यातेने किरणावलीमुदयनः' इति प्रयोगस्यापि शीघ्रानायासनिष्पन्नत्वप्रतीतिफलकभूतानद्यतनत्वविवक्षाया एव सूक्ष्मकालेन करिष्यामि यत्र मयाऽपि साक्षात्कर्तुमशक्यमिति ज्ञानफलकपारोक्ष्यविवक्षायाश्च सम्भवाल्लिट उपपत्तिरिति साधुत्वमेव । एवमत्यन्तापह्नवेऽपि लिट् भवति । “अत्यन्तापह्नवे लिट् वक्तव्य' इति वचनात् । यथा केचित्पुरुषेण चैत्रं प्रत्युक्तं 'मया कलिङ्ग दृष्टोऽसि तत्र गन्ता तु पुनः संस्कारयोग्यो भवति ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy