________________
१२४ दर्पणपरीक्षासहिते भूषणसारे
व्यापाराविष्टानां क्रियानुकूलसाधनानामेवात्र पारोक्ष्यं विवक्षितमतोनोक्तदोषः । 'अयं पपाच' इत्याद्यनुरोधाद् व्यापाराविष्टानामितीत्यपि वदन्ति । __ कथं तर्हि "व्यातेने किरणावलीमुदयनः" इति स्वक्रियायाः स्व
दर्पणः ऽवयवः स तु न धातुवाच्यः, किन्त्ववसमूहाऽऽत्मनैव । आश्रितक्रमरूपत्वात्तद्वाच्यस्य । एवञ्च सदसद्रूपा क्रिया न सद्विषयेन्द्रियग्राह्या । तदुक्तम्
क्रमात् सदसतां तेषामात्मना न समूहिनः ।
सद्वस्तुविषयैर्यान्ति सम्बन्ध, चक्षुरादिभिः॥ इति । अत्यन्तापरदृष्टेति भाष्यस्याऽप्यवयवरूपेण समूहात्मना चाऽदृष्टेत्येवाऽर्थः । अत एव "वर्तमाने लट्" इति सूत्रे भाष्ये, “अस्ति वर्तमानो कालः, परं त्वाऽऽदित्यगतिक्नोपलभ्यते” इत्युक्तम् । तस्य प्रत्यक्षेणेति शेषः।। ___ एवञ्च वर्तमानत्वाक्रान्तक्रियाणां स्पष्टमेवाऽप्रत्यक्षत्वं तत उपलभ्यते । 'पश्य मृगो धावति'इत्यादौ तु दृशिर्ज्ञानार्थको, धावतिर्वा फलपर इति न कश्चिद्दोषः । किञ्च अवयवस्य प्रत्यक्षत्वे, प्रकृतः कटमित्यादाववयवातीतत्वेन समुदायातीतत्वमादाय ताद्युपपादनवदवयवप्रत्यक्षत्वेन समुदायप्रत्यक्षत्वमादाय, परोक्ष इत्यस्य चारितायें भाष्यस्थपूर्वपक्षस्य निईलत्वापत्तिरित्यपरितोषान्मतान्तरमाह-*व्यापाराविष्टानामिति* । एवञ्चातीतानद्यतनव्यापाराविष्टपरोक्षकर्तृकक्रियावृत्ते तोलिडिति, "परोक्षे लिट् ( पा०सू० ३।२।११५ ) इति सूत्रार्थः। - *अयं पपाचेति । तदानीं कर्तुरपारोक्ष्येऽपि व्यापारदशायां पारोक्ष्यसत्त्वादुक्तप्रयोगोपपत्तिरिति भावः । *इत्यपि वदन्तीति । मतान्तरानादरेऽत्रापि पूर्वोक्तार्थस्याऽऽपातरमणीयत्वं मन्वाना भाष्याऽनुसारिण इति शेषः॥ . ___ अत्राहुर्नेयायिकाः-पूर्वाऽपरीभूताऽवयवसमुदायात्मकपारिभाषिकक्रियावाच्यप्रत्यक्षत्वं युक्तमेव । समूहस्यैवाभावात् । तदवयवानामपि पारोक्ष्यं तु सर्वानुभवविरुद्धम् । तत्र प्रत्यक्षकारणचक्षुःसंयुक्तसमवायादेः सत्त्वात् । अन्यथा घटपुस्तकादेरप्यप्रत्यक्षत्वाऽऽपत्तिरिति बहुव्याकोपः। अधिश्रयणं साक्षात्करोमीति सार्वजनीनप्रतीतेश्च । प्रतीतेः पदार्थाऽसाधकत्वे व्यवहारमात्रोच्छेदाऽऽपत्तिश्च । “क्रिया नामेयं" इति भाष्य
परीक्षा
___ यत्तु परोक्षत्वं च वक्तृभिन्नकर्तृकत्वम् । अत एव चैत्रसमक्ष मैत्रेण गमने कृतेऽपि 'मैत्रो जगाम' इति चैत्रीयप्रयोगस्योपपत्तिः । स्वकर्तृकगमनस्य चित्तविक्षेपादिना परोक्षत्वेऽपि स्वयं जगाम' इति न प्रयोग इति तन्नामाहं पपाचेति प्रयोगानुपपत्तेः। अस्मत्सामानाधिकरण्य एवोत्तमपुरुषविधाने वक्त्रभिन्नकर्तृकस्थबाधादिति । 'स्वयं जगाम' इत्यस्य प्रथमान्तप्रयोगस्य तु नापत्तिः। शेषत्वाभावात्।
मतान्तरमाह-*व्यापारेति । केवलसाधनप्रत्यक्षत्वेऽपि नानुपपत्तिरित्याह*अयमिति ।
*कथन्तहीति* । स्वकर्तृकक्रियायाः स्वीयप्रत्यक्षविषयत्वसम्भवादिति भावः ।