SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १२३ लकारार्थनिर्णयः। नच "क्रिया नामेयमत्यन्तापरदृष्टा पूर्वापरीभूतावयवा न शक्या पिण्डीभूता निदर्शयितुम्" . इतिभाष्यात् तस्या अतीन्द्रियत्वेन परोक्षे इत्यव्यावर्तकमितिशयम् । पिण्डीभूताया निदर्शयितुमशक्यत्वेऽप्यवयवशः साक्षात्करोमीति प्रतीतिविषयत्वसम्भवात् । मन्यथा 'पश्य मृगो धावति' इत्यत्र तस्या दर्शनकर्मता न स्यादिति प्रतिभाति। दर्पणः ववत्त्वमित्यर्थः । उक्तस्थले प्रत्यक्षविषयतासत्त्वेऽपि तादृशविलक्षणविषयत्वाभाववत्त्वमक्षुण्णमिति न तदनुपपत्तिः । प्रत्यक्षं तादृशशब्दप्रयोक्तुर्ग्राह्यम् । ननु दशमस्त्वमसीत्यादौ शब्दादप्यपरोक्षज्ञानस्य दृष्टत्वेन शब्दजन्यतादृशज्ञानविषयेन्द्रियासम्बन्धक्रियायां लिडनुपपत्तिरितिचे ? न । तत्रापि शाब्दज्ञानसहकृतमनसैव दशमसाक्षात्कारो, न तु शब्दात् । लौकिकविषयतानियामकेन्द्रियसंयोगादेरभावेन शाब्दे तद्वत्त्वाऽसम्भवात् । अत एव तत्त्वमसीत्याद्याचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने कारणमिति गीताभाष्ये उक्तमिति सर्व समञ्जसम्।। ___ "क्रिया नामेयम्" इति भाष्ये साऽसावनुमानगम्येति शेषः । क्रिया-साध्यत्वेन प्रतीयमाना, इयं पचतीत्यादिव्यवहारविषयीभूता। यतः पूर्वापरीभूता क्रमिकानेकव्यापारसमूहात्मिका, अतोऽत्यन्तापरदृष्टा-परेण प्रत्यक्षप्रमाणेनाऽत्यन्तमदृष्टा तज्जन्यज्ञानाविषया इति यावत् । पिण्डीभूतेति । अवयवानामाशुविनाशित्वेन पिण्डस्यैवाभावादिति भावः । ननु तर्हि तस्यां किं प्रमाणमत आह-*साक्षादिति । विक्लित्यादिरूपकार्याऽनुमेयेति । *अन्यथेति । क्रियाया अवयवशोऽपि साक्षात्काराऽनभ्युपगमे इत्यर्थः । *प्रतिभातीति । उक्तार्थ एवाऽस्मबुद्धिविषयो भवतीत्यर्थः। . ननु क्रियाऽवयवा अपि क्रियावदतीन्द्रिया एव ; यथा पचेल्दकसेचनादयोऽवयवास्तथा तेषामन्यवयवास्तेऽपि समूहरूपेणैव धातुवाच्याः। यस्तु क्षणाऽवच्छिन्नस्तद्रूपो __परीक्षा दृशानुव्यवसायनिरूपितविषयताशालि। एवं च प्रत्यक्षविषयक्रियायां तादृशानुव्यवसायनिरूपितविषयताश्रयप्रत्यक्षविषयत्वसत्वेन बाधान्न तत्र 'पपाच' इति प्रयोगः। ____ परोक्ष इति विशेषणस्य व्यावर्त्य दर्शयितुमाह-*नचेति । *अत्यन्तापरदृष्टा*परेण सर्वतो बलवता प्रत्यक्षेणात्यन्तमदृष्टा । अत्र हेतुमाह-पिण्डीभूतेति । समुदायभावमापन्नानामवयवानामाशुविनाशित्वेन पिण्डीभावस्यैवासम्भवादिति भावः । अत एवानुमानगम्येति भाष्ये उक्तम् । अनुमानं च तत्कृतदर्शनेन बोध्यम् । एकावयवस्य प्रत्यक्षत्वमादाय यथा-'पश्य मृगो धावति' इति प्रयोगस्तथा पच्धात्वर्थक्रियाया अपि यत्र प्रत्यक्षत्वम् । तत्र लिडन्तप्रयोगवारणाय परोक्षे इति विशेषणमित्याशयेनाह-पिण्डीभूताया इति* । *अन्यथा*-अवयवशोऽपि तस्याः साक्षात्कारानभ्युपगमे।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy