________________
दर्पणपरीक्षासहिते भूषणसारे -
अन्वयव्यतिरेकाभ्यां तद्रूपं लडादिवाच्यमेव । अन्यथा प्रत्ययानां वाचकत्वविलोपापत्तिरित्यपि पक्षान्तरम् ।
१२२
लिडर्थमाह-परोक्षे इति । "परोक्षे लिट्” (पा०सू०३।२।११५) इतिसुत्रात् । कालस्तावद्यतनानद्यतनभेदेन द्विविधः । द्विविधोऽपि भूतभविष्यद्रूपः । तत्रानद्यतने भूते परोक्षे लिडित्यर्थः । तेनाद्यतने भूते, अनद्यतने भविष्यति, भूतेऽप्यपरोक्षे च न लिट्प्रयोगः । परोक्षत्वं चसाक्षात्करोमीत्येतादृशविषयताशालिज्ञानाविषयत्वम् ।
दर्पणः
कत्वपक्षमवलम्ब्याऽऽह - *अन्वयव्यतिरेकाभ्यामित्यादि ।
I
नच कौण्डिन्यन्यायात् कर्त्राद्यर्थबाधः, शक्तताऽवच्छेदकभेदात् । किञ्चैवं “लः कर्मणि" इति सूत्रं निरवकाशं स्यात् । स्थलान्तरेऽपि विध्याद्यर्थैर्बाधसम्भवादितिभावः । *अन्यथा*—अन्वयव्यतिरेकयोः शक्त्यग्राहकत्वे । *विलोपापत्तिरिति । सर्वत्र प्रकृत्यैव तत्तत्प्रत्ययार्थत्वाभिमतबोधसम्भवादिति भावः । अधिकं सुबर्थनिर्णये वक्ष्यते । *अनद्यतने भूत इति । “भूते" ( पा० सू० ६।२।४ ) इति “अनद्यतने लड्” (पा० सू० ३।२।१११ ) इति सूत्राभ्यां तत्तत्पदानुवुत्तिरिति भावः । *न लिट्प्रयोग इति । उक्तार्थस्य बाधात् पपाचेत्यादिजबोधानन्तरमनद्यतनत्वादिसन्देहाऽनुदयाद् भूतत्वादिवत्तयोरपि तद्वाक्यजत्रोधे क्रियांशे विशेषणतया भानमभ्युपेयम् । तच्च वाचकतां द्योतकतां वा विनाऽनुपपन्नमिति लिटस्तदभ्युपगम आवश्यक इति भावः ।
ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । तथाच प्रत्यक्षक्रियायामपि श्रुतानुमितत्वयोः सत्त्वात् पपाचेत्यादिप्रयोगापत्तिरत आह-परोक्षत्वञ्चेति । यथाश्रुतप्रत्यक्षाविषयत्वस्योपनीतक्रियायामभावेन तत्र पपाचेत्यादिप्रयोगानुपपत्तिरत आह—*साक्षात्करोमीति । साक्षात्करोमीत्येतत्प्रतीतिसाक्षिकलौकिकविषयत्वाभा
परीक्षा
1
1
अथ लडादीनां वर्तमानत्वादिवाचकत्ववादिनो मतमाह - अन्वयेत्यादिना । कर्त्रा - द्यर्थबाधस्तु वक्तुमशक्यः । “लः कर्मणि” इति सूत्रारम्भसामर्थ्यात् । शक्ततावच्छेकभेदाच्च । अन्यथा विध्याद्यर्थैरपि बाधापत्तिरितिभावः । अन्यथा - शक्तिग्राहकयोरन्वयव्यतिरेकयोरनङ्गीकारे । एतत्पक्षे वर्तमानलस्य प्रत्ययार्थत्वेऽपि प्रत्ययार्थः कर्ता यथा भावनायां विशेषणं भवति; तथा वर्तमानत्वमपि व्युत्पत्तिवैचित्र्यादिति बोध्यम् । *विलोपापत्तिरिति । सर्वत्रैव लक्षणया प्रकृत्यर्थत्वस्योपपादनसम्भवादिति भावः । *अनद्यतन इति* । “अनद्यतने लङ्” इति सूत्रादनद्यतन इत्यस्य तन्त्रानुवृत्तेः । भूते इति त्वधिकारब्धम् । * तेन* - - ' अनद्यतन' इति विशेषणेन । *प्रयोग इति । उक्तार्थस्य बाधादिति शेषः । लिटः प्रागुक्तार्थद्योतकत्वाभ्युपगमेन 'पपाच' इत्यादिवाक्यजन्यशाब्दबोधानन्तरं क्रियाविशेष्यको भूतत्वभावित्वप्रकारकोऽनद्यतनत्वापरोक्षत्वप्रकारको वा सन्देहोऽत एव न भवति । ननु परोक्षत्वं प्रत्यक्षान्यज्ञानविषयत्वम् । एवं च या क्रिया प्रत्यक्षा तस्यामप्यनुमित्साजन्यानुमितिविषयत्वसम्भवात् 'पाच' इति प्रयोगापत्तिरत आह-*परोक्षत्वं चेति । * इत्येतादृशविषयताशालि - एता