SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः। १२१ परतो भिद्यते सर्वमात्मा तु न विकम्पते । पर्वतादिस्थितिस्तस्मात् पररूपेण भिद्यते ॥ इति वाक्यपदीये च । एवम् "तम आसीत्" "तुच्छेनाभ्यपिहितं यदासीत्। "हमेकः प्रथममासम् , व मि च भविष्यामि च" इत्यादिश्रुतयोऽपि योज्याः। तच्च वर्तमानत्वादि लडादिभिर्योत्यते । क्रियासामान्यवाचकस्य तद्विशिष्टे लक्षणायां लडादेस्तात्पय्यंग्राहकत्वेनोपयोगात् । दर्पणः *परतो भिद्यते इति । सर्व पच्यादिधात्वर्थसामान्यं परतः-स्वाऽपेक्षयाऽन्येन वर्तमानत्वादिना । भिद्यते*-व्यावर्तते । आत्मास्तीत्यत्रात्मादिपदमात्मसत्ताधर्थक न विकल्पते सनातनत्वेन निरवयवत्वादुक्तविशेषणसम्बन्धाभावेन भेदाऽनुमितिविषयो न भवतीत्यर्थः । तथाचाऽत्मास्तीति प्रयोगाऽनुपपत्तिरिति पूर्वार्द्धार्थः । समाधत्ते-*तस्मादिति । विशेषाऽतिरिक्तपदार्थस्य स्वतो व्यावृत्तत्वासम्भवादित्यर्थः । पर्वतादीत्यादिनाऽत्यादिपरिग्रहः। _*पररूपेणेति । परस्य राजक्रियादिरूपार्थस्य, रूपेण-धर्मेण वर्तमानत्वादिना भिद्यते इत्युक्त एवार्थः। *तम इत्यादि । तम आसीदित्यादयो भूतक्रियागतभूतत्वारोपात् । *भविष्यामि चेति । भाविक्रियागतभविष्यत्त्वारोपाच्च योज्या इत्यर्थः । पक्षद्वयस्यैवाऽऽकरारूढतां प्रदर्शयन् प्रथमद्योतकत्वपक्षे उपपत्तिमाह-*तच्चेति। *क्रियासामान्येति । कालसामान्यवृत्तिक्रियावाचकस्येत्यर्थः । ___ *तद्विशिष्टे* । वर्तमानकालादिविशिष्टे, वर्तमानत्वादिविशिष्टे वा व्यापारे इत्यर्थः । लडादेरित्यादिना लिडादिपरिग्रहः । *उपयोगादिति । स च प्राक्प्रतिपादितः । तथाच लडाद्यादेशत्वेन तिबादीनां वर्तमानत्वादिद्योतकत्वान्नापाक्षीदित्यादा वर्तमानक्रियाप्रतीतिः । क्रियासामान्यशक्तधातोस्तत्तद्विशिष्टे लक्षणयैव तत्तद्विशिष्टक्रियाबोधोपपत्तौ पृथग्वर्त्तमानत्वादा तेषां शक्तिकल्पने गारवादिति भावः । वाच परीक्षा *परत इत्यादिना । आत्मा-विशेष्यतया भासमानम् । न विकम्पते-न तस्य रूप भिन्नं भवति । *तस्माद*-विशेष्यस्य स्वतो व्यावृतत्त्वासम्भवात् । ____ *पररूपेणेति । परस्य राजादेर्या क्रिया तस्या यद्रूपं तद्धर्मो वर्तमानत्वादिस्तेन भिद्यत इत्यर्थः। एवं वर्तमानत्ववभूतत्वभविष्यत्वविषयेऽपि तथैव भूतत्वं भविव्यत्वं चोपपादनीयम्। - एवमेव श्रौतप्रयोगस्याप्युपपत्तिः कार्येत्याह-*तुच्छेनेति । *तुच्छेन-अज्ञानेन। प्रभुनित्यमात्मस्वरूपम् । *अभ्यपिहितम्*-आवृत्तस्वरूपम् यदासीदित्यर्थः। ___ नासम् अत्र भूतत्वस्य, भवामीत्यत्र निरुक्तवर्तमानत्वस्य । यदुक्तं दशलकाराणामर्थ इति तत्राद्यशब्दो न वाच्यार्थपरः, किन्तु द्योत्यार्थपर इत्याह-*तच्चेति । *वाचकस्येति । धातोरिति शेषः । तद्विशिष्टे*-वर्तमानत्वादिविशिष्टे । *लडादे:*-लडाधादेशस्य । *तात्पर्यग्राहकत्वेन*-इत्यनेन द्योतकत्वं स्पष्टतयैवोक्तम् । १६ द० ५०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy