________________
दर्पणपरीक्षासहिते भूषणसारे -
आत्माऽस्ति पर्वताः सन्तीत्यादौ तत्तत्कालिकानां राज्ञां क्रियाया अनित्यत्वात्तद्विशिष्टस्योत्पत्यादिकमादाय वर्त्तमानत्वमूह्यम् । उक्तं हि भाष्ये - " इह भूतभविष्यद्वर्त्तमानानां राज्ञां क्रिया स्तिष्ठतेरधिकरणम्" इति
१२०
दर्पण:
गिकत्वाभ्यां विशेषितेन आधेयतासम्बन्धेनाऽन्वयनियमोपगमेन वारणीया ।
यत्र तु खण्डक्रियैव धात्वर्थस्तत्र शुद्धाधेयतासम्बन्धेनैव तदन्वयान्नाऽऽत्मास्तीत्यादा दोष इति । भूतभविष्यद्भिन्नत्वं वेत्यत्र वाकारोऽनास्थायाम् । पूर्वलक्षणापेक्षयाऽस्य गुरुत्वाद्भविष्यत्त्वस्यापि वर्त्तमानत्वघटितत्वेन तद्ग्रहे, भविष्यत्वग्रहे च तदवच्छिन्नभिन्नत्वरूपवर्त्तमानत्वग्रह इत्यन्योऽन्याश्रयाच्च । एवं भूतत्वमादायाप्यन्योन्याश्रयो द्रष्टव्यः ।
ननु सत्ताश्रयत्वादीनां धात्वर्थत्वे तत्राऽसङ्गतिः तेषामखण्डत्वेनाऽवयवघटितोक्तलक्षणवर्त्तमानत्वासम्भवादत आह-आत्मास्तीति । अनित्यत्वादिति । सावयवत्वेन प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वादित्यर्थः । तद्विशिष्टस्यानित्यराजक्रियादिविशिष्टसत्तादिरूपार्थस्येत्यर्थः । तथाच केवलसत्तादिरूपार्थे तदसत्त्वेऽप्युक्तविशेषणविशिष्टे तस्मिन् विशेषणांशमादाय तत्सत्त्वं नाऽनुपपन्नमिति भावः ।
यद्वा तद्विशिष्टेत्यस्य तदा अव्यहितत्वादनित्यत्वस्यैव परामर्शात् तादृशक्रियागतं वर्त्तमानत्वमारोप्य सत्ताद्यर्थको लडित्यर्थः । तत्र स्वोत्प्रेक्षितत्वं निरस्यति-उक्तं हीति । तिष्ठतेरधिकरणमिति । आधेयतासम्बन्धेन तादृशक्रियात्मककालविशिष्टत्वात् तासामिति भावः । अनेन साधुत्वं लभ्यते । लक्षितकालस्येव वस्तुतस्त्वत्यादिना उक्तकल्पस्यैव क्रियायामाधेयतयान्वयलाभात् ।
परीक्षा
नन्वात्मास्ति पर्वताः सन्तीत्यादौ प्रधानीभूता याssत्मधारणानुकूलक्रिया व्यापारभूता तस्यां निरुक्तप्रारब्धापरिसमाप्तत्वं नास्तीति कथं लटः साधुत्वमत आह*आत्माऽस्तीति । * राज्ञामिति । इदमुपलक्षणं यस्य कस्यचित् क्रियायाः (१) । राज्ञामिति तु राज्ञः प्राधान्यात्तदुक्तिः । अनित्यत्वादिति । राजादिकर्तृकक्रियायां प्रागभावप्रतियोगित्वध्वंसप्रतियोगित्वरूपमनित्यत्वमस्तीति प्रारब्धापरिसमाप्तत्वस्य वर्तमानत्वस्य सत्वादित्यर्थः । तद्विशिष्टस्य * - राजा दिक्रियाविशिष्टस्य ।
अयम्भावः—आत्मास्तीत्यादौ धातूनामनेकार्थत्वाद्वाजादिकर्तृकक्रियाविशिष्टा आत्मधारणरूपफलानुकूलव्यापाररूपा क्रिया धारणार्थः । एवं च विशेष्यतया भूतक्रियाया अनित्यत्वात्तद्विशिष्टस्याप्यनित्यत्वमितिनिरुक्तवर्तमानत्वस्य सम्भव इति । उक्तार्थे भाष्यकारसम्मतिमाह — उक्तञ्चेत्यादिना । राजा तिष्ठतीत्यादौ स्वतो वर्तमानत्वस्य सम्भवः । आत्मा तिष्ठति, पर्वतास्तिष्ठन्तीत्यादौ तु राजादिक्रियामादायोक्तरीत्या वर्तमानत्वम् । *तिष्ठतेरिति । स्थित्यादेरप्युपलक्षणम् । एवञ्च राज्ञः स्थितिर्भूतादिभेदेन भिन्ना, आत्मादिस्थितेभेदिका, अस्मिन्नर्थे हरिसम्मतिमप्याह
1
( १ ) अधिकरणमिति शेषः ।