SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ लकारार्थनिर्णयः । परिसमाप्तत्वं, भूतभविष्यद्भिन्नत्वं वा वर्त्तमानत्वम् । पचतीत्यादावधिश्रयणाद्यधःश्रयणान्ते मध्ये तदस्तीति भवति लट्प्रयोगः । ११९ दर्पणः लक्षणं ग्राहयति - पचतीति । अधिश्रयणादीति । साध्यत्वप्रकारकप्रतीतिविषयपूर्वापरीभूतावयवसमुदास्यैव क्रियात्वादिति भावः । *तदिति । उक्तवर्त्तमानत्वमित्यर्थः । यद्यपि भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्येति निरुक्तभाष्यात् क्रियातिरिक्तकालस्यैव वर्त्तमानत्वादिकं प्रतीयते, तथापि निरुपाधिकस्य तस्य वर्त्तमानत्वादिना प्रत्येतुमशक्यत्वादुपाधिभूतक्रियामादायैव तत्र तत्त्वस्य वक्तव्यतयाssवश्यकत्वात् क्रियायामेव तत्त्वमुक्तमित्यवधेयम् । वस्तुतस्तु दण्डमुहूर्त्ताद्यात्मकः खण्डकाल एव वर्त्तमानत्वादिना लडादिवाच्यः । तद्गतं वर्त्तमानत्वं च तत्तच्छब्दप्रयोगाधिकरणत्वमेव तदादिन्यायेन तत्तच्छब्दप्रयोगाधिकरणत्वेनाऽनुगमाच्च न शक्त्यानन्त्यम् । यद्येवमपि तत्तत्त्कालत्वेन तत्तत्कालबोधस्यानुभवसिद्धानुपपत्तिरिति विभाव्यते; तदास्तु शब्दप्रयोगाधिकरणवृत्तिकालत्वव्याप्यधर्मत्वेनोपलक्षिततत्तत्कालत्वावच्छिन्न एव लटः शक्तिः । क्रियारम्भात् पूर्व्वं समाप्त्युत्तरं चाऽधीते पचतीत्यादिप्रयोगापत्तिस्तु स्ववृत्तिप्रागभावाऽप्रतियोगिवृत्तित्वस्ववृत्तिध्वंसाऽप्रतियोगिप्रकृतक्रियाऽनुयो परीक्षा नक्रियामादायव काले वर्तमानत्वादिकं निर्वचनीयम्, तदपेक्षया तत्तद्धात्वर्थक्रियामादाय तन्निर्वचनीयमित्येवोचितम् । वस्तुतस्तु तत्तत्कालत्वेनोपाधिना वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितेन तत्तत्काल एव लडादीनां शक्तिः कल्प्यते । एवं च तदादिन्यायेन तदाख्याने सा । न च तत्कालत्वावच्छिन्नेष्वाद्यादिरूपे काले लडादीनां शक्तिरचेतादृशकालाधारकक्रियायां देवदत्ताश्रयकत्वमबाधितमादाय पचिक्रियाया आरम्भात्पूर्वं तादृशक्रियाध्वंसानन्तरं च पचतीतिप्रयोगापत्तिरिति वाच्यम् । कर्ता ह्याख्यातार्थः ; स च व्यापाराश्रय एव । तत्र व्यापारस्य धातुलभ्यत्वादनन्यलभ्यस्य तत्तच्छब्द प्रयोगकालावच्छिन्नव्यापारतावच्छेदकसम्बन्धावच्छिन्नाश्रयता या लडर्थतावच्छेदकता तया दोषाभावात् । एवं वर्तमानसामीप्यमपि लडर्थः क्वचित् । “वर्तमानसामीप्ये वर्तमानवद्वा" इति सूत्रात् । वर्तमानसामीप्यं चातीतानागतसाधारणम् । तच्च क्रियानिष्ठम् । प्रकृतशब्दप्रागाधिकरणक्षणध्र्वसाधिकरणक्षणोत्पत्तिकत्वप्रकृतशब्दप्रयोगाधिकरणक्षणवृत्तिध्वंसप्रतियोगिक्षणवृत्तित्वान्यतररूपम् । 'कदाऽऽयास्यसि' इत्युक्ते एष आगच्छामीत्युक्ते आये कदा गतोऽसीत्यादौ अन्त्यम्प्रतीयते । वर्तमानसामीप्यं च विवक्षाधीनं क्रियायां प्रधानभूतायां विशेषणतया भासते । निरुक्तवर्त्तमानसामीप्याश्रयगमनानुकूला क्रियेति बोधात् । *भूतभविष्यद्भिन्नत्वं वेति । अत्र वाकारोऽनास्थायां पूर्वापेक्षयाऽस्य गुरुत्वात् । एवं भूतत्वभविष्यत्वयोरप्येवं निर्वचनस्यैतत्तुल्यतया एतत्पक्षे कार्यमित्यन्योन्याश्रयापत्तिश्च स्यादितिपूर्वलक्षणमेव युक्तमिति । *मध्ये तदस्तीति । मध्यकालवृत्तिव्यापारे निरुक्ते वर्तमानत्वमस्तीत्यर्थः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy