________________
अथ लकारार्थनिर्णयः। अथ प्रत्येकं दशलकाराणामर्थे निरूपयतिवर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रार्थनादौ च क्रमाज्ज्ञेया लडादयः ॥२२॥ लडादयष्टितः षट् क्रमेणैवर्थेषु द्रष्टव्याः। तथाहि-वर्तमानेऽर्थे लट् । “वर्तमाने लट्" (पा०सू० ३।११-३) इति सूत्रात् । प्रारब्धा
दर्पणः
अथ लकारार्थनिर्णयः। लकारसामान्याथें निरूपिते तद्विषयकजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानाद्विशेपार्थनिरूपणेऽवसरस्य सङ्गतित्वं सूचयन्नाह-*प्रत्येकमिति । *दशलकाराणामिति । लट् लिट् इत्यादिक्रमेण पठितानामित्यर्थः । आदेशानां वाचकत्वमिति पक्षेऽपि तिङाचादेशनिष्ठां बोधकतारूपां शक्ति लडादिष्वारोप्य तद्विधानात् तदर्थकत्वं तेषामनभिमतमिति भावः। ___ *प्रारब्धापरिसमाप्तत्वमिति । विनष्टा द्यवयवप्रागभावकत्वे सत्यनुत्पन्नध्वंसान्त्यावयवकत्वमित्यर्थः । भाविभूतक्रिययोरतिप्रसङ्गवारणाय क्रमेण पदद्वयम् । लक्ष्ये
परीक्षा लकारसामान्यस्यार्थे निरूपिते तद्विषयकसामान्यार्थाजिज्ञासानिवृत्तौ विशेषार्थविषयकजिज्ञासोत्पत्ताववसरसङ्गत्या लकारविशेषार्थ निर्वक्ति-*वर्तमान इत्यादिना* । लडादयः षट् टितः क्रमाद्वर्त्तमानादिषु कालेषु द्रष्टव्या इत्यर्थः । नच वर्त्तमानत्वादिप्तीतिर्लकारादेशज्ञानादिति बोधकत्वरूपा शक्तिरादेशेष्वेवोचिता, एवं चैते षट् वर्तमानादिष्वित्यनुपपन्नमिति वाच्यम् ? शास्त्रीयानुवादवशात्तस्याः शक्तेलडादिष्वारोपेण विधानाभ्युपगमात् । *प्रारब्धपरिसमाप्तत्वमिति । अयं भावःवर्तमानत्वं न शब्दप्रयोधिकरणकालवृत्तित्वम् । तादृशदिनादिरूपकालमादाय विनष्टेऽपि पाके पचतीति प्रयोगापत्तिः । नापि तादृशक्षणवृत्तित्वम् , क्रियायाः पूर्वापरीभूतावयवकसमुदायरूपायास्तादृशैकक्षणवृत्तित्वासम्भवात्। किन्तु विनष्टप्रागभावकाद्यवयवकत्वे सति, अनुत्पन्नध्वंसान्त्यावयवकव्यापारसमुदायनिष्ठं तादृशशब्दप्रयोगाधिकरणबुद्धिस्थक्षणसमूहावयवाश्रयकालवृत्तित्वमेव विवक्षितमिति । नचैवमपि यत् किञ्चिदेकक्षणे तादृशसमूहाभावादनुपपत्तिरेवेति वाच्यम् । क्रियाया यत्किञ्चिदेकक्षणवृत्त्ययं पचेत् तादात्म्यारोपेण पचतीत्यादिव्यवहाराभ्युपगमात् । अत एव निवृत्तभेदादतिकथनमिति । यद्यपि "भावकालकारकसंख्याश्चत्वारोऽर्था आख्यातस्य" इति निरुक्तभाष्ये प्रतिपादितमिति वर्तमानत्वादिकं क्रियाऽतिरिक्तमादाय कालवृत्ति निर्वक्तुमुचितम्, तथापि उपाधिमन्तरा तस्य निर्वक्तुमशक्यतया धातुवाच्यक्रियाभि