________________
धात्वर्थनिर्णयः ।
मन्त्रविधिवदित्यादिभूषणे प्रपञ्चितम् ।
नन्वाख्यातस्य भावनायामसाधुत्वे ततस्तद्बोधो न स्यात्, साधुत्वज्ञानस्य शाब्दबोधहेतुत्वादित्यत आह - *बोध इति ॥ असाधुत्वेऽपि साधुत्वभ्रमाद् बोधोऽस्तु नाम, अपभ्रंशवत् । असाधुत्वन्तु स्यादेवेति भावः । वस्तुतः साधुत्वज्ञानं न हेतुस्तद्व्यतिरेकनिर्णयोऽपि न प्रतिबन्धक इति 'असाधुरनुमानेन' इत्यत्र वक्ष्यामः ॥ २१ ॥
११७
रङ्गोजि भट्टपुत्रेण कौण्डभट्टेन निम्मिते ।
पूर्णो भूषणसारेऽस्मिन् धात्वाख्यातार्थनिर्णयः ॥ १ ॥ इति श्रीकौण्डभट्टविरचिते वैयाकरणभूषणसारे धात्वर्थाख्यातसामान्यार्थनिर्णयः समाप्तः ॥ १ ॥
दर्पणः
ऽनुवचनस्य वाक्यप्रकरणाभ्यां क्रतुयुक्तपुरुषधर्मतावत् प्रकृतेऽप्यनृतवदननिषेधस्य श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषधर्मतैवोचिता । उक्तञ्च भट्टपादैःस्त्र्युपायमांसभक्षा दिपुरुषार्थमपि श्रितः ।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयाद् ॥ इति भावः ॥
* प्रपञ्चितमिति ॥ प्रपञ्चस्तु उक्तः । ननु साधुत्वज्ञानं विनाऽपि शाब्दबोधोदयेन व्यभिचारात् कथमेतत् साधुत्वस्य शक्तत्वरूपताया निराकरिष्यमाणत्वाच्चात आह*वस्तुत इति । *तद्व्यतिरेकनिर्णय इति । असाधुत्वनिश्चये इत्यर्थः । तन्निश्चयेऽप्यपभ्रंशाद् बोधदर्शनात् । तथाचाख्याताद्भावनाबोधे बाधकाभाव इति भावः ॥ २१ ॥ इति भूषणसारदर्पणे धात्वाख्यातार्थनिरूपणम् ॥ १ ॥
परीक्षा
मीमांसकः शङ्कते-नन्विति । साधुत्वज्ञानस्य शाब्दबुद्धिं प्रति कारणत्वमभ्युपेत्य साधुत्वभ्रमादित्युक्तम् । वस्तुतस्तदेव नेत्याह - * वस्तुत इति । ननु यत्संशयव्यतिरेकनिश्चयौ यदुत्पत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुरिति सामान्यतो व्याप्त्या साधुत्वनिश्चयस्य शाब्दबुद्धित्वावच्छिन्नं प्रति हेतुत्वादत आह-तद्व्यतिरेकनिर्णय इति । *न प्रतिबन्धक इति । तद्व्यतिरेकनिर्णयेऽप्यसाधोर्लोकिकैः प्रयुज्यमानाच्छाब्दबोधस्य दर्शनेन व्यभिचारात् असाधुत्वनिश्चयस्य प्रतिबन्धकत्वासिद्धावुक्तव्याप्त्यनवसर इति
1
भावः ॥ २१ ॥
इति श्रीमद्भूषणसारटीकायां परीक्षानामिकायां धात्वाख्यातार्थविवरणं समाप्तम् ।
....