________________
११६ दर्पणपरीक्षासहिते भूषणसारेत् क्रत्वर्थतैव । अस्तु वा क्रतुयुक्तपुरुषधर्मः । अनुष्ठाने विशेषाभावात् । “जअभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू"इति वाक्योक्त
दर्पणः *अस्तुवेति।
*अनुष्ठान इति* ॥ 'नाऽनृतं वदेत्' इति निषेधस्य क्रतुयुक्तपुरुषधर्मत्वे यजमानस्य प्राधान्यात्प्रधानीभूतकत्रेवानृतवदनं वयं स्यात् । क्रत्वर्थत्वे च यज्ञप्रवृत्तेन यजमानेन ऋत्विग्भिश्च वर्जनं सिध्यतीति विशेषात् कथमेतदिति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बन्धपुरुषकर्तृकानृतवदनाभाव इति बोधेन क्रतुकर्तृकेतिबोधे मानाभाव इति क्रतुयुक्तेति वदतोऽभिप्रेतत्वादिति ।। ___ तत्र दृष्टान्तमाह-*मयि दक्षिक्रतू इति* । दर्शपूर्णमासप्रकरण एवैतन्मन्त्रवचनं श्रूयते-“जञ्जभ्यमानोऽनुब्रूयान्मयि दक्षक्रतू" इति । तत्र किमेतन्मत्रवचनं शुद्धपुरुषधर्मः उत क्रतुयुक्तपुरुषसंस्कारकतया क्रत्वङ्गमिति सन्देहे, वाक्येन तावज्जञ्जभ्यमानपुरुषधमतयैवाऽयं प्रतीयते । कृत्प्रत्ययस्य शानचः कर्तृवाचकत्वात् । प्रकरणेन तु क्रत्वङ्गतयाः प्रकरणं च वाक्यापेक्षया दुर्बलमिति पुरुषधर्मतैव युक्ता। सत्यां च फलाकांक्षायां "प्राणापानावेवात्मानं धत्ते” इति वाक्यशेषे श्रुतस्य फलस्य रात्रिसत्रन्यायेनकल्पनादिति पूर्वपक्षे, सिद्धान्तः-वाक्यप्रकरणयोर्विरोधे बाध्यबाधकभावो, नत्वत्रास्ति विरोधः। जञ्जभ्यमानपदस्य कर्तवाचकतया तादृशपुरुषस्य क्रतावपि सत्त्वात् तत्संस्कारमुखेन क्रत्वङ्गतासम्भवात् । एवञ्चाऽर्थवादोपस्थितफलकल्पनागौरवमपि नेति। तथाच बलाबलचिन्ताया विरोध एवौचित्येन जञ्जभ्यमानवाक्या
परीक्षा कर्तुरप्यन्वय इत्येतावतैव पुरुषार्थत्वमिति ब्रूषे; तदा प्रकृतेऽपि सममित्याह-*अस्तु वेति । ऋतुयुक्तपुरुषसंस्कारद्वारा क्रतुयुक्तपुरुषधर्मः । न च क्रतुयुक्तः प्रधानीभूतो यजमानस्तेनैव प्रधानतयाऽनृतं वर्जनीयमिति कर्तुंर्वाच्यत्वे समायाति भावनाया वाच्यत्वे तु प्रधानन्यायानवतारात्सर्वेरिति विशेषःप्राप्नोतीति वाच्यम् । श्रुतिप्रकरणाभ्यां क्रतुसम्बद्धपुरुषकर्तृकानृतवदनाभावबोध एव लभ्यते न तु क्रतुकर्तकर्त्तक इत्याशयात्। *अनुष्ठाने*-क्रत्वङ्गक्रियाकरणे जञ्जभ्यमानवाक्यवदिति । यथा दर्शपूर्णमासप्रकरणपठितमिदं वाक्यम् , तत्र 'जञ्जभ्यमान' इत्यत्र कतरिशानच् प्रत्यय इत्यस्य शुद्धपुरुषसंस्कारकत्वमुत ऋतुसम्बद्धपुरुषसंस्कारकतया क्रत्वङ्गत्वमिति सन्देहे, अनेन वाक्येन तावज्जञ्जभ्यमानपुरुषधर्मतैव प्रतीयते, प्रकरणेन तु क्रत्वङ्गत्वमिति विरोधस्य सत्वाकेवलपुरुषसंस्कारकत्वमिति पूर्वपक्षे सिद्धान्तितम्। यत्र विरोधस्तत्र श्रुतिप्रकरणयोबर्बाध्यबाधकभावः । यत्र तु न तथा तत्रोभयोः समावेश एव, न तु बाध्यबाधकभाव इति प्रकृते जाभ्यमानपदस्य कर्तृवाचकतया तादृशपुरुषस्य क्रतावपि सत्वेन तत्संस्कारमुखेन क्रतुसंस्कारकत्वमिति तथा प्रतीतेऽपीति भावः । तदुक्तम्भट्टपादैः
स्त्र्युपायमांसभक्षादिपुरुषार्थत्वमपि श्रितः।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ इति स्त्र्युपायः-स्त्र्युपगमनं, प्रतिषेधो 'न स्त्रियमुपेयात्' 'न मांसमश्नीयात्! 'नानृतं वदेत्' इति प्रतिषेधः ।