________________
धात्वर्थनिर्णयः ।
११५
'तिङर्थस्तु विशेषणम्' इत्यनेन परिहृतत्वात् । नहि गुणभूतः कर्ता निषेधं स्वाङ्गत्वेन ग्रहीतुमलम् । भावना तु प्रधानं तं ग्रहीतुं समर्थेति प्रकरणा
दर्पणः
प्रकाशनसमर्थाया ऋचोऽन्यथानुपपत्त्या लिङ्गेनाऽनयेन्द्र उपस्थातव्य इति श्रुतिः कल्पनीया, यथा विनियोगो भवेत् । ततो यावल्लिङ्गं श्रुतिकल्पनाय प्रक्रान्तव्यापार, तावत् प्रत्यक्षश्रुत्या विनियोगः सिद्ध इति प्रकरणे निराकाङ्क्षे कयानुपपत्त्या श्रुतिः कल्पनीया । तस्माच्छ्रुतेर्बलवत्त्वात्तदनुगुणतया सामर्थ्यं नीयमाने इन्द्रपदं परमश्वर्यायवाचकतया गार्हपत्यतात्पर्य्यकमित्यवधार्य्यत इति ।
विरोधोदाहरणान्तराणित्वन्वत्यतोऽवधार्य्याणि, गौरवभयान्नेह प्रपञ्चितानि । तदयं निर्गलितोऽर्थः - श्रुतिर्निरपेक्षत्वात् सर्वतो बलवती, लिङ्ग तु विनियोगे एकान्तरितत्वाद् द्व्यन्तरितवाक्याद् बलवत् । एवं वाक्यादावप्यूह्यम् । समाख्या तु पञ्चान्तरितत्वात्सर्वतो दुर्बलेति । प्रकृते आकाङ्क्षापर्यवसन्नप्रकरणेन वाक्यं कल्पनीयम् । तेन च लिङ्ग, लिङ्गेन श्रुतिस्तयाऽनृतवदन निषेधस्य क्रतौ विनियोगः । यावच्च प्रकरणं वाक्यकल्पनायै प्रक्रान्तव्यापारं तावत्प्रत्यक्षया कर्त्रर्थे काख्यातश्रुत्या तस्य पुरुषार्थत्वविनियुक्त क्तमपि वाक्याद्यत्किञ्चित्कारकमिति श्रुतिविरोधे बाध्यत इत्यस्यार्थः । लिङ्गादीनामुक्तप्रकारेण श्रुत्यपेक्षया दुर्बलत्वादिति भावः ।
1
समाधत्ते—*तिङर्थस्तु विशेषणमिति ॥ तथाचाख्यातश्रुत्या कर्तुरुपस्थापनेऽपि न भावनावत् तस्य प्रधान्येन भानं, येन निषेधस्य पुरुषार्थता शङ्कयेत, किन्तु विशेपणतयैव तथोपस्थितस्य च विशेषणाऽन्तरनैराकाङ्क्ष्येण कर्त्तुः श्रौतननर्थ सम्बन्धाभावान्नाऽत्र श्रुत्या प्रकरणबाध इत्याशयं विशदयति-स्वाङ्गत्वेनेति । स्वविशेषणतयेत्यर्थः । नन्वेवं निषेधस्य क्वापि श्रौतपुरुषार्थता न स्यात् । 'न कल भक्षयेत्' इत्यत्राप्युक्तरीत्या कर्तरि नञर्थासम्बन्धेन श्रौतत्वात्, यदि च कर्तुरप्राधान्येऽपि कर्तृवृत्तिभावनायाः प्राधान्यात्तस्या नञर्थाऽन्वये तद्द्वाराख्यातार्थकर्त्तुरप्यन्वयान्न तस्य श्रौतपुरुषार्थत्वानुपपत्तिरिति विभाव्यतेः तदा प्रकृतेऽपि तुल्यमत आहपरीक्षा
समाख्यावाचको यौगिकः शब्दः । यथा - हौत्र मौद्गात्रमिति । अत्र होतुरिदं हौत्रमिति योगबलेन हौत्रादि समाख्यानि कर्माणि हौत्रादिभिरनुष्ठेयानीति ॥ ६ ॥
*परिहृतत्वादिति । यदुक्तं तत्प्रकारं दर्शयति-नहीति । यदि कर्त्ता प्रधानं स्यात्तदा निषेधस्य पुरुषार्थता शुडूयेत, तथा तु नास्ति ; किन्तु विशेषणमेव ; तस्य च विशेषणान्तरनैराकांक्ष्येण कर्तुः श्रौतनञर्थसम्बन्धाभावात् । *स्वाङ्गत्वेन – स्वविशेषणतया । *तम् — निषेधम् । *प्रकरणात् क्रतुप्रकरणात् । नन्वेवं 'न (१) कलजं भक्षयेत्' इत्यादिनिषेधस्यापि पुरुषार्थत्वं न स्यात्पुरुषस्य कर्त्तु विशेषणत्वात् । यदि च कर्त्तुरप्राधान्येऽपि कर्तृवृत्तिभावनायाः प्राधान्यात्तस्या नञर्थान्वये तद्वारा
( १ ) कलअं च विषलिप्तशत्रहतमृगमांसमिति यावत । उक्तं च
विषलिप्तेन शस्त्रेण यो मृगः परिहन्यते । अभदयं तत्तत्कलअस्य तन्मासमिहेष्यते इति ।