________________
११४
दर्पणपरीक्षासहिते भूषण सारे -
दर्पण:
लब्धवाक्यभावानां पदानां कार्य्यान्तरापेक्षावशाद्वाक्यान्तरेण सम्बन्ध आकाङ्क्षापर्यवसन्नं प्रकरणम् । यथा - 'समिधो यजति' इति । अस्य हि दर्शपूर्णमासे कथम्भावाकाङ्क्षायाः प्रकरणपाठवशाच्छेषत्वम् ॥ ४ ॥
स्थानम् - क्रमः । स चानेकस्याम्नातस्य सन्निधिविशेषाम्नानम् । यथा - दधिरसीत्यत्राग्नेयोपांश्वग्नीषोमीययागाः क्रमेण पठिताः । एवं मन्त्रभागेऽपि क्रमेणानुमन्त्रत्रयं पठितम् । तत्राग्नेयाग्नीषोमयोर्द्वयोर्लिङ्गेनैव विनियोगसिद्धिः । ' दधिरसिः' इत्यत्र तु न लिङ्गादिविनियोजक, किन्तु यस्मिन् प्रदेशे ब्राह्मणे उपांशुयागविधानं तस्मिन् प्रदेशे मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयागानुमन्त्रेण तस्य विनियोगः ॥ ५ ॥
समाख्या-योगबलम् । तथा हौत्रमौद्गात्रम्' इत्यादि । तत्र हि होतुरिदं हौत्रमित्यादियोगबलेन हौत्रादिसमाख्यातानि कर्माणि होत्रादिभिरनुष्ठेयानीति ॥ ६ ॥
विरोधोदाहरणादि यथा- - श्रुतिलिङ्गयोर्विरोधे श्रुतिर्बलीयसी, लिङ्ग तु दुर्बलम्, अर्थविप्रकर्षात् । यथा - ' कदाचनस्तरीरसी' इत्यादिकाया ऋचो विनियोजिका श्रुतिः 'ऐन्द्रया गार्हपत्यमुपतिष्ठते' इति इन्द्रप्रकाशनसामर्थ्याल्लिङ्गादिन्द्रोपस्थापने विनियोगोऽस्याः प्रतिभाति । अन्यप्रकाशकस्याऽन्यत्र विनियोगायोगात् । श्रुत्या गाईपत्योपस्थाने स प्रतीयते । गार्हपत्यमिति द्वितीया हि कर्मविभक्तितया कामपि क्रियामपेक्ष्य प्रकृत्यर्थस्य शेषित्वं बोधयति । क्रियाजन्येष्टफलभागित्वस्य तदर्थत्वात् । एवमैन्द्रयेति तृतीयाप्रकृत्यर्थस्य शेषत्वं क्रियां प्रति साधकतमत्वरूपकरणत्वस्य तदर्थ - त्वात् । तदनयोर्विरोधः ।
तत्राऽयं पूर्वपक्षः, सामर्थ्यज्ञानमपेक्ष्य श्रुतिर्विनियोजिका । न ह्यसमर्थं श्रुतिसहस्त्रमपि विनियोक्तुमलम् । अतो लिङ्गस्य बलवत्त्वादिन्द्रोपस्थानेऽस्या विनियोगः । तदनुरोधितया द्वितीया सप्तम्यर्थतया व्याख्येया । गार्हपत्यसमीपे इन्द्रोऽनया उपस्थातव्य इत्यर्थः पर्यवस्यतीति ।
सिद्धान्तस्तु श्रुतिः स्वरूपसत्सामर्थ्यमपेक्षते, न तु तज्ज्ञानमपि । येन लिङ्ग बलवद्भवेत् । तस्य च पूर्वसत एव विनियोगोऽन्यथानुपपत्त्या ज्ञानं पश्चादुपजायते । लिङ्ग तु विनियोजने श्रुतिमपेक्षते । न ह्यनयेन्द्र उपस्थातव्य इति लिङ्गात् स्वरसतः प्रतीयते, किन्त्विन्द्र एतादृगित्येतावन्मात्रम् । तथाच प्रकरणाम्नानसामर्थ्यादिन्द्र
परीक्षा
प्रकरणन्तु — लब्धवाक्यभावानां पदानां कार्य्यान्तरापेक्षया वाक्यान्तरेणाकाङ्ख्या सम्बन्ध एव । यथा-समिधो यजतीति, अस्य कथं भावाकाङ्क्षा दर्शपौर्णमासप्रकरणपाठवशात्तच्छेषत्वम् ॥ ४ ॥
स्थानं - क्रमः । स च पाठसादृश्यात्, पाठसादृश्यं च द्विविधम्, यथासंख्यपाठेन संनिधिपाठेन च । यथा - ऐन्द्रानमेकादशकपालं निर्वपेत् । वैश्वानरं द्वादशकपालमिति रीत्या क्रमविहीनेष्टिषु - 'इन्द्राग्नीरोचनादिव' इत्यादीनां याज्यानुवाक्यानुमन्त्राणां यथासंख्यं प्रथमस्य प्रथमम्, द्वितीयस्य द्वितीयमिति । एवं यो विनियोगः स यथासंख्यपाठात् प्रथमपठितमन्त्रस्य कैमर्थ्याकांक्षायां प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते समानदेशत्वादिति ॥ ५ ॥