SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११३ धात्वर्थनिर्णयः। द्धि क्रत्वर्थता, तच्च श्रुतिविरोधे बाध्यत इति चेद् ? न । दर्पणः ___ *तच्चेति । प्रकरणं चेत्यर्थः । *श्रुतिविरोध इति । निरपेक्षरवरूपश्रुति प्रातिकूल्य इत्यर्थः। तथाहि-श्रुत्यादयः षडिह विनियोजकाः। तत्र विरुद्धयोरकत्रोपनिपाते समुच्चयदौर्लभ्यादेकेनाऽपरस्य बाधो वक्तव्यः स च बलवता दुर्बलस्येति कस्य दौर्बल्यमित्याकाङ्क्षायां परदौर्बल्यप्रतिपादक, श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्' इति सूत्रं प्रणिनाय महर्षिजैमिनिः। श्रुत्यादीनां पठितानां समवाये एकत्रोपनिपाते पारदौर्बल्यमिति। पर एव पारः । उत्तरपठितम् । तथा चैषां मध्ये यदपेक्षया यत्परं तत् दुर्बलमित्यर्थः । तत्र हेतुमाह-अर्थविप्रकर्षादिति । अर्थस्य विनियोजकस्य लिङ्गादितो विप्रकर्षादुत्तरवर्तित्वात् । लिङ्गादेविलम्बेन पूर्वापेक्षया विनियोजकत्वागतेरिति यावत् । तत्र श्रुत्यादीनामुदाहरणानि निरपेक्षाण्येव स्युः । इतरप्रामाण्याऽनधीनप्रामाण्यकत्वं च निरपेक्षत्वम् । यथा-'ब्रीहीनवहन्ति' इति । अत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीयाश्रुतिरितरनिरपेक्षैव व्रीहीणामवघातशेषित्वं प्रतिपादयति॥१॥ अर्थविशेषप्रकाशनसामर्थ्य लिङ्गम् । यथा-'बहिर्देवसदनं दामि' इति । अत्र लवनार्थप्रकाशकतया लवनस्य विनियोगः ॥२॥ __ परस्पराकाङ्क्षावशादेकस्मिन्नर्थे पर्यवसन्नानि पदानि वाक्यम् । यथा 'देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्' 'अग्नये त्वा जुष्टं निर्वपामि' इति। अत्र मन्त्रलिङ्गेन निर्वापे प्रयुज्यमानस्य समवेताऽर्थभागस्यैकवाक्यताबलेन, 'देवस्य त्वा' इत्यादिभागस्यापि तत्रैव विनियोगः॥३॥ परीक्षा भवता कर्तुराख्यातवाच्यता स्वीक्रियते, तदातु पुरुषार्थत्वं स्यादिति भावः । *श्रुतिविरोध इति । अत्र श्रुतिशब्दो निरपेक्षरवपरः । निरपेक्षो रवःश्रुतिरिति तैः कथनात् । "श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्"इति जैमिनिसूत्रं हि प्रकरणस्य दौर्बल्यबोधकम् । श्रुत्यादीनां पठितानामेकत्र समवाये एकत्र समवधाने परस्यैतत्सूत्रपठितेषु परस्य दुर्बलत्वमिति तदर्थः । परस्य दुर्बलत्वे हेतुरर्थविप्रकर्षादित्यर्थस्य विनियोज्यस्य विप्रकर्षाद्दूरवर्तित्वात् । लिङादेविलम्बेन विनियोजकत्वावगतेरिति यावत् । _ आद्यस्योदाहरणं यथा-ब्रीहीनवहन्तीति । अत्र द्वितीयाश्रुत्या निरपेक्षतया वीहीणामवघातशेष प्रतिपादयति ॥१॥ लिङ्गमर्थविशेषप्रतिपादनसामर्थ्यम् , यथा 'बर्हिदेवसदनं दामि' इत्यादि। अत्र दामीत्यस्य लवनरूपार्थप्रकाशकतया लवनेऽस्य विनियोग इति वाच्यम् ? परस्पराकासावशादेकस्मिन्नर्थे पर्य्यवसितानि पदानि यथा-"अग्नये त्वा जुष्टं निर्वपामि' इति मन्त्रस्य निर्वपामीति मन्त्रलिङ्गन निर्वापे प्रयुज्यमानस्य समवेतार्थे भागस्यैकताबलेन "देवस्य त्वा सवितुः प्रसवेऽश्विनोः” इत्यस्याऽपि तत्रैव विनियोगः॥२-३॥ १५ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy