________________
११२ दर्पणपरोक्षासहिते भूषणसारे
ननु त्वन्मते 'नानृतम् इति निषेधः क्रत्वर्थ एव न सिद्ध्येद्, आख्यातेन कषुरुक्तत्वाच्छुत्या पुरुषार्थतैव स्यात् । प्रकरणा
दर्पणः तस्य सूत्रकारादिभिरनुशिष्टत्वात् कत्तबोधकत्वेनैव तदनुशासनादिति भावः । ___ मीमांसकः शङ्कते-नन्विति। त्वन्मते-वैयाकरणमते। नानृतमिति । दर्श पूर्णमासप्रकरणे हि 'नानृतं वदेत्' इति श्रूयते । तत्र किमयं प्रतिषेधः पुरुषार्थः, आहोस्वित् क्रत्वर्थ इति संशये, वदेदित्याख्यातात् कर्तृप्रतीत्या कर्त्तवाचकत्वनिर्णयो, “ल: कर्मणि" इत्यनुशासनात्तस्य कर्तपरत्वलाभाच्च । प्रत्ययार्थत्वेन वदनं प्रति प्राधान्यादू वदनं तावत् पुरुषार्थोऽतः प्रतिषेधोऽपि पुरुषार्थः । निषेधप्रतियोगित्वेन वदनक्रियामनुवदता वदेदिति शब्देन पुरुषार्थतयैव बोधनात् तादृशस्यैवाऽनृतवदनस्यानिष्टसाधनताया विपरीतस्वभावबोधकनना बोधनादन्यादृशाऽनृतवदनस्य चाऽनुपस्थितत्वात्। अत एवऽनारभ्याऽधीतस्मातवदननिषेधस्याऽप्येतदेव मूलं भवतीति लाघवम् । अन्यथा तन्मूलभूतः पुरुषार्थोऽन्यो निषेधः कल्प्यः इति गौरवं प्रसज्येतेति पूर्वपक्षे, 'अनन्यलभ्य एव शब्दार्थः' इति न्यायाद्भावनैवाख्यातवाच्या, कर्ता त्वाख्यातवाच्यभावनाया अविनाभावादाक्षेपलभ्य एवेति न तत्र तस्य शक्तिः । “लः कर्मणि" इत्यादिस्मृतिरपि "द्वयेकयोः" इत्यनेनैकवाक्यतया तत्संख्यातवाचित्वपरैव । पचति देवदत्त इत्यादौ च गौः शुक्ल इतिवत् सामानाधिकरण्यं लक्षणयैवेति नाख्यातस्य कर्तृवाचित्वमिति कर्तुः श्रुतेरनुपस्थितत्वान्न पुरुषार्थता तस्य, किन्तु प्रकरणात् क्रत्वर्थतैवेतिनिर्णीतं कर्त्रधिकरणे। *आख्यातेनेति । तिडेत्यर्थः ।
परीक्षा
दिभिः कर्त्तय्येवाख्यातस्य शक्तिबोधनात्-तस्मादेतद्दोषवारणाय कर्तृकर्मणोराख्यातवाच्यत्वमावश्यकम्।
ननूक्तरीत्या कर्तुराख्यातार्थत्वे व्याकरणसङ्गतावपि दर्शपूर्णमासप्रकरणपठितस्य नानृतं वदेत्' इति निषेधस्य क्रत्वर्थत्वं न स्यात् । तथा च ऋतौ-अपभाषणे क्रतुवैगुण्यनिवारणार्थ प्रायश्चित्तानुष्ठानं न स्यादिति सकलमीमांसकशिष्टाचारविरोध इत्याह-*नन्वित्यादिना* । *त्वन्मते*-वैयाकरणमते । *क्रत्वर्थः*-क्रतूपकारकः । किमयं प्रतिषेधः पुरुषार्थ-आहोस्क्त् िक्रत्वर्थ इति संशये वदेदिति श्रुत्या कर्तुः पुरुषस्य प्रतिपादनात् पुरुषार्थः स्यात् , अनृतवदनकर्तुः पुरुषस्य नसमभिव्याहारादनिष्टसाधनता प्रवीयेत । तथा चानभ्याधीतस्य नानृतमिति निषेधस्याऽपि एतदेकवाक्यतया पुरुषार्थतव स्याल्लाघवात्, नतु तस्यान्यपदार्थत्वमपि, स्मार्तस्य श्रौतमूलत्वेन वैलक्ष्यण्यकल्पनायां गौरवात् । अनेनाख्यातेनेत्यादिना काधिकरणीयपूर्वपक्षानुवादः कृतः, तत्र हि-'अनन्यलभ्य एव शब्दार्थः' इति न्यायेन भावनाया अविनाभावात्कर्ता आक्षेपलभ्य एव, न तु तत्राख्यातस्य शक्तिः "लः कर्मणि" इति सूत्रंतु "कयोः" इति सूत्रैकवाक्यतया।आक्षिप्तकर्तृनिष्ठसंख्याबोधकं देवदत्तः पचति इत्यादौ सामानाधिकरण्यं तु 'गौः शुक्ल' इतिवत् । एवं श्रुत्या पुरुषस्यानुपस्थितत्वात् , न तस्य 'नानृतम्' इति निषेधस्य पुरुषार्थत्वं, किन्तु प्रकरणात् क्रत्वर्थत्वमिति निर्णीतम् । यदि