________________
धात्वर्थनिर्णयः।
१११ परा तत्रैवावच्छेदकतया कल्प्यमानधर्मस्य शक्तित्वं वदतां मीमांसकानां पुनः शक्तत्वं साधुत्वमित्येकमेवेति तद्रीत्या विचारे साधुत्वनिर्णय एव शक्तिनिर्णय उच्यते। अतिरिक्तशक्तिवादेऽप्याख्यातानामसाधुता भावनायां स्यादेव । एवञ्च चतुर्थ्यर्थे तृतीयाप्रयोगवद्धात्वर्थभावनायामाख्यातप्रयोगे, याशे कर्मण्यसाधुशब्दप्रयोगान्नाऽनृतं वदेदिति निषेधोल्लङ्घनप्रयुक्तं प्रायश्चित्तं दर्शनान्तरीयव्युत्पत्तिमतां स्यादेवेति ।
दर्पणः तत्र-साधुशब्दे । *अवच्छेदकतया । बोधजनकताऽवच्छेदकतयेत्यर्थः । *अतिरिक्तशक्तिवादेऽपीति* । साधुत्वं न शक्तत्वमसाधोरपि बोधात्किन्तु बोधकत्वमिति वक्ष्यमाणसिद्धान्तिमतेऽपीत्यर्थः।
*असाधुता स्यादेवेति । आख्याताच्छक्तिभ्रमेण भावनाबोधेऽपि तत्र तस्याsसाधुता स्यादेवेत्यर्थः । तथाच भाष्यकृता-"सिद्धे शब्दार्थसम्बन्धे" (म भा० आ०२) एत्यत्र "समानायामर्थावगती साधुभिर्भाषितव्यम् , नाऽसाधुभिरिति गम्यागम्येतिवन्नियमः । क्रियते" इति पस्पशायामुक्तम् । एवं यादृशविशेषणान्वितयाहशविशेष्यबोधे यादृशानुपूर्व्याः सूत्रकृदाद्यन्यतमसम्मतत्वं तादृशबोधे तादृशानुपूर्वीकः शब्दः साधुर्नान्यत्र । अत एवास्वशब्दोऽश्वे न साधुः, किन्तु निःस्वे । अश्वशब्दो निस्वे न साधुः, किन्तु तुरग इति सङ्गच्छते । नन्वस्तु साधुतेत्यत आह-*एवञ्चेति* याज्ञकर्मणीत्यनेन "नानृतं वदेन्नाऽपभ्रंशितं वा” इत्यादिश्रुतिः क्रतुप्रकरणे पाठादितरत्र तत्प्रयोगे प्रत्यवायाऽभावं सूचयति-*स्यादेवेति । भावनाबोधकत्वेनाख्या
परीक्षा दिति, एतदेव विशदयति-*अयमर्थ इत्यादिना । *तत्र-'साधुशब्दे । *अवच्छेदकतया*-तन्निष्ठा या बोधजनकज्ञानविषयता तदवच्छेदकतया। *एकमेवेति । साधुशब्दज्ञानाच्छाब्दबोध इति तदुक्तेः । ननुसाधुत्वं न शक्तत्वमसाधोरपि बोधात् , किन्तु शक्तत्वमतिरिक्तमेवेत्याशयेनाह-*अतिरिक्तेति । *स्यादेवेति । आख्यातस्य भावनायां शक्तिभ्रमात्ततो भावनाया बोधेऽपि तत्र तस्यासाधुता स्यादेव; सूत्रकाराद्यन्यतमेन तत्र तस्य शक्तरबोधनात् । अत एव गम्यागम्या दृष्टान्तेन पस्पशायां भाष्यकृता-"समानायामर्थावगतौ शब्दैश्चापशब्दैश्च तत्र धर्मनियमः क्रियते” साधुभिर्भाषितव्यम् , नासाधुभिरिति । भावनायामाख्यातस्यासाधुत्वसिद्धौ यत् फलितं तदाह-*(१)तथाचेति । तत्र तस्यासाधुत्वे च । *नानृतमिति । अत्रानृतं वैधा शब्दानृतमर्थानृतञ्चेति, शब्दानृतं गाव्यादि । अर्थानृतमस्वेऽश्वशब्दप्रयोगः। *प्रायश्चित्तमिति । ऋतुप्रकरणे 'नानृतं वदेन्नापभ्रंशित वै' इति पाठादिति शेषः । *दर्शनान्तरीयेति* । मीमांसकरीत्या भावनामायाख्यातस्य शक्तिरिति भ्रमवतां सूत्रकारा
(१) एवञ्चेति पाठान्तरम् । . , .