________________
११०
दर्पणपरीक्षासहिते भूषणसारे -
व्युत्पत्त्या " द्विर्वचनेऽचि " ( पा० सू० १।१।५६ ) इति ज्ञापकं वा श्राश्रित्योपपादनीयमित्याहुः ॥ २० ॥
ननु सिद्धान्ते बोधकतारूपा शक्तिराख्यातशक्तिग्रहवतां बोधादावश्यकी इति धातोरेव भावना वाच्या, नाख्यातस्येति कथं निर्णय इत्याशङ्कां समाधत्ते -
भेद्यभेदकसबन्धोपाधिभेदनिबन्धनम् ॥
साधुत्वं तदभावेऽपि बोधो नेह निवार्यते ॥ २१ ॥ भेद्यं - विशेष्यम्, भेदकं-विशेषणं तयोर्यः सम्बन्धस्तस्य यो भेदस्तन्निबन्धनं साधुत्वम् । अयमर्थः - व्याकरणस्मृतिः शब्दसाधुत्व
दर्पणः
ति-धजुपस्थाप्योक्तरूपेत्यर्थः । * व्युत्पत्त्येति ॥ विवरणपरभाष्यकारप्रयोगादित्यर्थः ॥ * ज्ञापकमिति ॥ तादृशसूत्रकृत्प्रयोगम् । 'हतशायिकाः शय्यन्ते' इतिवदिति भावः । *आहुरिति ॥ सारग्राहिण इति शेषः ॥ २० ॥ *सिद्धान्त इति ॥ वैयाकरणसिद्धान्ते । 'इन्द्रियाणां स्वविषयेषु' इत्यादिना प्रतिपादिता बोधकतारूपा शक्तिराख्यातेऽप्यबाधितैव । ततो भावनाबोधस्य जायमानत्वादित्यर्थः । साधुत्वपरेति* ॥ तथाच हरि:
साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ॥ इति
परीक्षा
विशेषणतानापन्नत्वेनैवाश्रयणाद्भोक्तुं गतो भोक्तुं पाक इत्यादि न भवति, किन्तु भोक्तुं पचति भोक्तुं गच्छतीत्याद्येवेति । *आहुरिति । आहुरित्यस्वरसबीजन्तु कृत्वसुविधायके क्रियाग्रहणम्, अभ्यावृत्तिग्रहणम्, अभ्यावृत्तिगणनं क्रियाया एव, न तु द्रव्यगुणयोरित्यर्थबोधकमेवास्तु । तावताऽपि तस्या चारिताथ्येंन साध्यमात्रस्वभावेत्यत्र मानाभावात् । एवं च ' सकृत् पाक' इत्यादिप्रयोगाणामनभिधानमेवोचितम् । एवं “द्विर्वचनम्” इत्यादिलौकिकप्रयोगाणां स्वरसत एवोपपत्तौ सौत्रत्वाश्रयणमनुचितम् । एवं तुमुन्विधायक सूत्रस्योक्तरीत्या विलक्षणविषयत्वकल्पनेऽपि धात्वर्थमात्रानुवादकक्तान्तयोगे तस्य दुर्वारकतेति भोक्तुं गतमित्यादि भवत्येवेति ॥ २० ॥
* सिद्धान्ते* — वैयाकरणसिद्धान्ते । *बोधकतारूपेति । "इन्द्रियाणां स्वविषय" इत्यादिना बोधकता रूपव शक्तिः प्रतिपादिता ।
यद्यभेद्यशब्द इतरभिन्नत्वेन ज्ञायमानपर इत्याशयेन व्याचष्टे -* भेद्यं विशेष्यमि - त्यादिना* | *तस्य यो भेद इति । तस्य विशेष इत्यर्थः । तन्निबन्धनम्*:-तत्प्रयोज्यम् । अयम्भावः- यादृशसम्बन्धेन यादृशविशेषणान्विते विशिष्ये यादृशानुपूर्व्याः सूत्रकाराद्यन्यतमेन साधुत्वमुक्तम्, स शब्दस्तस्मिन्नर्थे साधुः, अन्यत्रासाधुः । अत एव दन्त्यमध्यो अस्वशब्दोऽश्वत्वप्रवृत्तिनिमित्तमुपादायाश्वे न साधुः, किन्तु दरिद्र एव एवमाख्यातस्य "लः कर्मणि" इत्यादिना कर्त्रभिधायकत्वस्य युक्तिसिद्धत्वात्तत्रैव साधुता, न त्वन्यत्र । धातोश्च भावनानभिधायकत्वेऽसाधुता व्याकरणसिद्धान्तविरोधा