SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ धात्वर्थनिर्णयः । १०९ केचित्तु – “क्रियाभ्यावृत्ति गणने" इत्यत्र क्रियाग्रहणं व्यर्थम् । तस्या एवाभ्यावृत्तिसम्भवेन सामर्थ्यात्तल्लाभात् । तथाच साध्यमात्रस्वभावक्रियालाभाय तदिति वाच्यम् । नच पाक इत्यादौ तानशीति नातिप्रसङ्गः । द्विर्वचनमिति च, द्विःप्रयोगो द्विर्वचनमिति दर्पणः भावः ॥ *ता एवेति । क्रियाया एवेत्यर्थः । एवकारेण द्रव्यगुणव्यवच्छेदः । तयोः सकृदेवोत्पत्तेः । क्रियायास्तु नैकस्या अपि निवृत्तिभेदाया धातुवाच्यत्वापगमेन तत्सम्भवादिति भावः । *साध्यमात्रेति । यद्यपि धातूपस्थाप्यायां तत्वमक्षतमुक्तयुक्तेः, तथाऽपि साध्यमात्रस्वभावपदस्योक्तप्रत्ययार्थगुणीभूतसाध्यस्वभावमात्रपरत्वान्न दोषः ॥ *तादृशी परीक्षा युक्तोक्तेर्येषां तद्धितप्रत्ययान्तानां प्रयोगः प्रामाणिकस्तेषां साधुत्वान्वाख्यानम् । सकृ त्पाकः' इत्यादिप्रयोगे तु विवादसत्वात्तस्य साधुत्वान्वाख्याना य“एकस्य सकृच्च" इत्येतत्र न प्रवर्त्तते इति भावः । न च गुणप्रधानभावो भिन्नयोः पदार्थयोर्भवति ; पाक इत्यादौ च पच् - धातुप्रतिपाद्यक्रियाया एकत्वात्कथं गुणप्रधानभाव इतिवाच्यम् ? साध्यत्वसिद्धत्वाभ्यामसत्वसत्वाभ्यां च धर्माभ्यामुपाधिभ्यां कल्पितभेदमादाय विशेष्यविशेषणभावोपपत्तेः । तत्र “प्रकृतिप्रत्ययौ सहार्थम्" इत्यादि क्लतन्यायेन प्रत्ययप्रतिपाद्यायाः सिद्धस्वभावक्रियायाः प्राधान्यम् । प्रकृत्यर्थभूतसाध्यस्वभावा क्रिया तस्यां विशेषणतया भासते । एकज्ञानविषयत्वं च संसर्गो विशेषणतया भासमानक्रियायामेव कारकान्वयो यथा ; तथा कृत्वोऽर्था अपि भवन्ति । अनभिधानं विनापि 'सकृत्पाक' इत्यादिप्रयोगापत्तिं वारयतां मतमाह- केचि त्वित्यादिना* | *तस्या एवेति । सा साध्यमात्रस्वभावा पूर्वापरीभूतावयवकक्रियोक्ता तस्या एवेत्यर्थः । एवकारेण द्रव्यगुणव्यवच्छेदः । अयम्भावः - ययोर्द्रव्यगुणयोरेकवारमुत्पत्तिस्तयोर्न पुनरुत्पत्तिरित्यनुभवसिद्धम्, किन्तु सकृदेव क्रिया तु यद्यपि पूर्वापरीभूता नानावयवकत्व विशिष्टाभिन्ना भिन्नकालिकप्रवृत्या साध्यते; तथाऽपि निवृतिभेदाद् धातुना प्रतिपाद्यते, शब्दशक्तिस्वभावादिति तस्या जन्मनि पौनःपुन्यम्, अस्यां कल्पनायां “संख्यायाः क्रियाभ्यावृत्ति" इति सूत्रमेव मानमिति, एतदेवाह — सामर्थ्यादिति । अभ्यावृत्तिपदोपादानसामर्थ्यादित्यर्थः । *तत्* - क्रियापदम् । *नचेति* । नहीत्यर्थः । तादृशी * - साध्यमात्रस्वभावा । नच प्रागुक्तरीत्या प्रकृतिप्रतिपाद्या साध्यमात्रस्वभावैवेति वाच्यम् ? तस्याः कृदविहिता या द्रव्यभावमापन्ना क्रिया तां प्रति विशेषणतया तस्या जन्मगणनासम्भवेन या विशेष्यविधया भासते तस्याः जन्मगणनं वाच्यम् । तच्च न सम्भवतीत्याशयात् । द्विर्वचनमित्यादेस्तु सौत्रवात्साधुत्वम् । अत एव द्विः प्रयोगाविति न ज्ञापकमिति । साध्यमात्रस्वभावत्वाभावेऽपि सुज्न भवतीत्याद्यर्थे ज्ञापकमित्यर्थः । एवमेव द्विः प्रयोग इत्यस्याऽपि साधुत्वम् । इदमुपलक्षणं तुमुन्विधायकसूत्रेऽपि क्रियाग्रहणादुभयोः क्रिययोः साजात्यलाभात् । साजात्यस्य च साध्यमात्रस्वभावकल्पनवत् । स्ववाचकप्रकृतिकप्रत्ययार्थ
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy