________________
१०८ दर्पणपरीक्षासहिते भूषणसारे
अतिप्रसङ्गमाशङ्कय समाधत्तेकृत्वोर्थाः क्त्वातुमुन्वत्स्युरिति चेत् सन्ति हि कचित् ॥ अतिप्रसङ्गो नोद्भाव्योऽभिधानस्य समाश्रयात् ॥ २० ॥ __ भोक्तुं पाकः ; भुक्त्वा पाक इत्यादौ "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् " (पा०सू० ३।३।१०॥) “समानकर्तृकयोः पूर्वकाले" (पासू० ३२॥२१) इति क्रियावाचकोपपदे क्रिययोः पूर्वोत्तरकाले विधीयमानापि तुमुन्नादयो गुणभूतां तामादाय यथा जायन्ते, तथा कृत्वोऽर्था अपि स्युः । एकः पाक इत्यत्र, “एकस्य सकृच्च" (पा०सू० ५।४।१६) द्वौ पाको, त्रयः चत्वार इत्यत्र “द्वित्रिचतुर्व्यः सुच्" (पा०सू० ५।४।१७)। पञ्चेत्यत्र कृत्वसुच स्यात् । तथाच सकृत् पाकः द्विस्त्रिश्चतुः पाका इत्याद्यापत्तिरिति चेदिष्टापत्तिः। “द्विर्वचनम्" इत्यादिदर्शनात् । अतिप्रसङ्गस्त्वनभिधानान्नेत्याह- *अतीति* ॥ “न हि वचिरन्तिपरः प्रयुज्यते” इत्याद्यभियुक्तोक्तरीत्या समाधेयमिति भावः।
दर्पणः तत्रेदं चिन्त्यम्-भावाऽनधिकारीयधात्वर्थाऽनुवादकप्रत्ययान्तयोगे तुमुनो दुर्वारत्वात् । किञ्च सुविधायकेऽप्युक्तविशेषणविशिष्टायास्तस्या ग्रहणमावश्यकम् । तत्तद्विशेषणीभूतक्रियायाः साध्यमात्रस्वभावत्वेन तज्जन्मगणने द्वौ पाकावित्यत्र सुजापत्तेरशक्यवारणत्वात् । नच तत्रेष्टापत्तिः। क्रियापदोपादानवैयर्थ्यादभ्यावृत्तिपदसामर्थ्येनैव क्रियाया लाभादिति वक्ष्यमाणत्वात् ।
किञ्च साध्यत्वेन क्रिया तत्र' इति हरिपद्यव्याख्यावसरे, एकस्यव सम्बन्धिभेदादाचार्यत्वमातुलत्वादिवदेकस्या एव क्रियायाः प्रकृतिप्रत्ययरूपवाचकसम्बन्धिभेदादुपस्थितिरिति स्वोक्तिविरोधः क्रियाद्वयाबोधाङ्गीकार इति ॥१९॥
*अतिप्रसङ्गमिति । गुणभूतक्रियामादाय कृत्वोपत्तिरूपमित्यर्थः ॥ तुमुन्नादीत्यादिना, 'कृष्णं दर्शको याति' इत्यत्र ण्वुलः सङ्ग्रहः । क्रिययोरित्यस्योद्देश्यत्वरूपे तादर्थे इति शेषः ॥ विधीयमाना इत्यस्य घोतकतयेत्यादिः ॥ द्विर्वचनमित्यादीत्यादिना द्विः प्रयोगपरिग्रहः । तत्र ल्युड्घार्थगुणीभूतक्रियामादाय सुचो दर्शनादिति
परीक्षा पाकस्त्रिः पाक इत्यपि स्यादित्याशङ्कां निराचष्टे-*अतिप्रसङ्गमित्यादिना । *इत्याद्यापत्तिरिति । आदिना पञ्चकृत्वः पाक इत्यस्य संग्रहः । *इष्टापत्तिः* । ल्युडाद्यर्थे गुणीभूता या क्रिया तस्या जन्मगणने कृत्वसुजादिप्रत्ययोत्पत्ताविष्टापत्तिः । तत्र मानमाह-द्विर्वचनमित्यादीति । आदिना "द्विः प्रयोगोर्द्विवचनम्" इति भाष्यप्रयोगसंग्रहः । 'सकृत्पाक' इत्यादिकं चानभिधानान्न भवतीत्याह-*अतिप्रसङ्ग इति । “अनभिधाने दृष्टान्तमाह-*नहि वचीति । अभिधानलक्षणा:-कृत्तद्धितसमासा इत्यभि