SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३६० दर्पणपरीक्षासहिते भूषणसारे१४) इत्यादिकं संगृह्यते । दर्पणः णम् । माञ्जिष्टपटादेश्चक्षुरादिना रक्तत्ववारणाय तदीयत्वं रूपविशेषणम् । अन्न च रागकरणस्य मञ्जिष्ठादेः प्रकृत्यर्थस्य तद्धितार्थैकदेशसम्बन्धे प्रतियोगितया रूपे चाधेयतयान्वयः । तथाच मञ्जिष्ठासंबन्धाधीनो यो मञ्जिष्ठानिष्ठरूपारोपस्तद्विषयता परीक्षा पाढभेदसत्वात् यत्काठकगृह्यीयम्पूर्वोक्तन्तदेतादृशाधिकपरमेव । नच यदि चैत्रादिशब्दो यौगिकस्तहि मीनादिरविविशिष्टकालरूपेषु चैत्रादिसौरेषु रूढिरेव चैत्रादिपदस्यास्तामिति वाच्यम् । 'सावैशाखस्यामावास्याया रोहिण्या सम्बध्यते' इति श्रुतिबलाच्चान्द्र एव शक्तिसिद्धेः । तथाहि-यदि सौर एव शक्तिस्तदा वैशाखपदस्य मेषस्थरविविशिष्टकाल एव शक्तिरिति तदमावास्यायां रोहिण्याञ्चन्द्रस्यावस्थानाभावाच्छुतिविरोधः स्पष्ट एव । “यः सूर्यचन्द्रमसोः परः सन्निकर्षः साऽमावास्या" इति गोभिलवचनादमा. वास्यान्ते चन्द्रस्य सूर्यस्य तदवस्थाने नियमात् । यदि तु चान्द्रे शक्तिस्तदाऽस्ति संभवः । शुक्लप्रतिपदादेवैशाखस्यान्ते चन्द्रावस्थानस्य प्रायोरोहिण्या:सम्भवात्। श्रुतिस्थं रोहिणीपदं कृत्तिकारोहिण्यन्यतमपरम् । तदुक्तं ज्योतिःसिद्धान्ते मेषादिस्थे सवितरि यो मासः प्रपूर्यते चन्द्रः । चैत्राद्यस्सविज्ञेयः पूतिद्धित्वेऽधिमासोऽन्यः । इति । अत्रायशब्दो वैशाखादिसङ्ग्राहक इत्याहुः । अपरे तु-पौषीपदे पुष्ययोगप्रयोगत्वं विवक्षितम् । एवञ्च पुनर्वसुनक्षत्रसत्वेऽपि न क्षतिरित्याहुः । “तदस्यास्त्यस्मिन्निति मतुप्" अनेन सूत्रेण पौषस्येति षष्टयर्थे प्रत्ययो विधीयते इति प्रतिभाति, तथापि धनवान् इति सामानाधिकरण्यानुभवात्सम्बन्धी वाच्य इति कल्प्यते । एवञ्च-गोमानित्यादौ मतुबर्थः सम्बन्धी तदेकदेशसम्बन्धे प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेनान्वयः । नच "प्रकृतिप्रत्ययौ” इतिनियमे प्रत्ययार्थशब्देन प्रत्ययाजन्यत्वप्रतीतिमुख्यविशेष्यस्य ग्रहणात् तत्रैवान्वय उचितो; नतु विशेषणे इति वाच्यम् । औपगवादौ यस्तद्धितस्तदर्थापत्येकदेशजन्यतायाम्प्रकृत्यर्थान्वयदर्शनेनोक्तलौकिकनियमे प्रत्ययजन्यप्रतीतिविषयमात्रस्याग्रहणात् । सम्बन्धे आश्रये च खण्डशः शक्तेः सम्भवाच्च । नच भूमिनिन्दादिकमपि मत्वर्थीयप्रत्ययान्तजन्यशाब्दबोधे भासते, तस्य कथमुपपत्तिः, सूत्राद्यनुपादानादिति वाच्यम् । प्रकरणादिवशात्तस्यार्थस्य शाब्दबोधेभानानुभवो न । यत्र तेषामर्थानाम्प्रतीतिस्तत्र प्रकृतेस्तत्तदर्थविशिष्टे लक्षणास्वीकारात् । ___*इत्यादिकमिति । आदिपदेन "तस्यापत्यम्" "तेन रक्तं रागात्" "संस्कृतं भक्षा" "तेन क्रीतम्" "तदस्मिन्नस्तीतिदेशे तन्नाम्नि” इति सूत्रचतुष्टयस्य "दृष्टं साम” इत्यादेश्व परिग्रहः । तत्रापत्यार्थविहिततद्धितार्थैकदेशजन्यतायाम्प्रकृत्यर्थस्यैकान्वयो भवत्येव । जन्यत्वस्य नित्यनिरूपकाकाङ्क्षत्वात् । यत्र गोत्रापत्ये प्रत्ययस्तत्र जन्यजन्ये पुंसि प्रत्ययस्य शक्तिः प्रथमजन्यतायाम्प्रकृत्यर्थस्योक्तसम्बन्धेनान्वयः। गाग्र्यायणो दाक्षायण इत्यादौतु युनिप्रत्ययो भवति, तत्र प्रत्ययार्थो युवत्वम् । अपत्यञ्च प्रकृत्यर्थगर्गगोत्रापत्यं दक्षगोत्रापत्यम्, तत्र निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्यान्वयः ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy