SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ देवतादिप्रत्ययार्थ निर्णयः । ३६१ वृत्तिमात्रेऽतिरिक्तशक्तेः, “समर्थः पदविधिः” (पा० सू० २।१।१) इति सूत्राल्लाभादुक्तो विचारः शास्त्रान्तरीयैः सह तद्रीत्यैवोक्तः । दर्पण: श्रय इति 'माञ्जिष्ठ' इत्यतो बोधः । 'शूल्यम् 'उख्यम्' इत्यादौ, “संस्कृतं भक्षाः " (पा०सू० ४।२।१९) इति सूत्रविहिततद्धितार्थैकदेशे पाकादिसंस्कारे शूलोखादेः प्रकृत्यर्थस्याऽधिकरणत्वेनाऽन्वयः ॥ अनयैव रीत्या तद्धितान्तरादूबोध कहनीयः । 2 तद्धितानां क्वचित्प्रकृत्यऽर्थे स्वार्थेकदेशस्य, क्वचित् स्वार्थस्यैवान्वयबोधकत्वादिति जहत्स्वार्थवृत्तिपक्षमवलम्ब्य मूलमवतारयति -* वृत्तिमात्र इति ॥ तथाच तत्पक्षे पदानामानर्थक्यात् तदर्थनिरूपणे सिद्धान्तप्रच्युतिरिति भावः ॥ *तद्वीत्यैवेति । शास्त्रान्तरीयरीत्येवेत्यर्थः । ननु वैयाकरणमते जहत्स्वार्थवृत्याश्रयणे, “न पूजनात्” (पा०सू० ५।४।९ ) " तेन रक्तं रागात्" (पा०सू० ४।२।० ) इत्यादिसूत्राणां का परीक्षा तत्रायं विशेष:- “ जीवति तु वंश्ये युवा" इत्यादिसूत्रे सा यस्मिन्नर्थे जीवति सति युवसंज्ञा अपत्यस्य भवति । तज्जीवनसमानकालिकत्वमपि प्रत्ययशक्यन्तस्य प्रधानीभूतेऽपत्ये विशेषतो भवति । एवञ्च - गार्ग्यायणादिशब्देभ्यो गर्गजीवनसमानकालिको गर्गजन्यानरूपितजन्यताविशिष्टःपुमानिति बोधः । "तेन रक्तम्" इति सूत्रेण माञ्जिष्ठं वस्त्रमित्यत्र प्रत्ययः । अत्र यद्यपि तेनेति करणे तृतोया, तदर्थस्य रञ्जधात्वर्थेऽन्वयेन तत्र तज्जन्यस्य प्रतीतिर्न्याय्या, सा नोपपद्यते । पूर्वस्थितपटसमवेतरूपध्वंसं विना रूपवति रूपान्तरानुत्पत्तेः। अत एव "तेन रक्तम्" इत्यस्य तत्सम्बन्धाधीनतदीयरूपारोपविषयोऽर्थः । प्रकृत्यर्थस्य मञ्जिष्ठस्य सम्बन्धेऽन्वयः प्रतियोगितायाः । तेनेति तु तृतीयान्तात्प्रत्ययोत्पत्तिम्बोधयितुमुपात्तमिति मञ्जिष्ठसम्बन्धाधीनतदीयरूपारोपविषयो वस्त्रमिति बोधः । पित्तपीतिम्ना यत्र 'पीतः शङ्खः' इति भ्रमः, तत्र तस्य भ्रमस्य न पीतरक्तमित्यत्र प्रत्यय इति तत्सम्बन्धाधीनत्वं विशेषणम्। 'दाधिकम्' 'शूल्पम्' उख्यम्' इत्यादौ 'संस्कृतं भक्ष्याः" इत्यादिना प्रत्ययः । आद्ये- 'दाधिक ओदनः' इत्यत्र प्रत्ययार्थः संस्कारविशिष्टः। संस्कारश्च सम्बन्धाधीनमा र्द्दवविशेषः, विशेषप्रकारप्रतीतिविषयो वा । एवञ्चसंस्कारैकदेशसम्बन्धे दहनोऽन्वयेन दधिसम्बन्धाधीनमार्द्दवविशेषविशिष्ट ओदन इति बोधः । ‘शूल्यम्, 'उख्यम्' इत्यादौ तु संस्कारः पाकादिरूपः । तत्र प्रकृत्यर्थस्याधिकरणत्वसम्बन्धेनान्वयः। एवञ्च शूलाधिकरणकपाकाश्रयो मांसमिति बोधः । “तेन क्रीतम्” इतिसूत्रेण 'सौवर्ण वस्त्रम्' इत्यादौ प्रत्ययः । क्रीतशब्दार्थश्च क्रयणक्रियाकर्म । क्रयणम् - स्वस्वत्वोत्पत्यनुकूलद्रव्यदानक्रियानुकूलव्यापारः । तत्र प्रत्ययार्थव्यापारे सुवर्णस्य करणतयाऽन्वयेन सुवर्णकरणकक्रयणकर्मणो बोधः । एवमन्यत्रापि यथायथमूहनीयम् । स्वसिद्धान्तमाह-*वृत्तिमात्र इति । जहत्स्वार्थावृत्तिरिति मतेन । *अतिरिक्तशक्तरिति समुदायस्येत्यादिः । तद्रीत्या - शास्त्र्यान्तररीत्या - ननु यदि वैयाकरणैर्जहत्स्वार्था वृत्तिराश्रीयते, तदा तेषाम् "तेन रक्तं रागात्" इत्यादिसूत्राणां कथमुपपत्तिर्वृत्तिघटकमञ्जिष्ठादे रागवाचकत्वाभावादेवं समासघटकप ४६ द० प०
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy