SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ३६२ दर्पणपरीक्षासहिते भूषणसारेमारोपितप्रकृतिप्रत्ययार्थमादाय वा । वस्तुतो विशिष्टशक्त्यैवार्थोपस्थितिरित्याह-*वस्तुत इति* ॥ ५५ ॥ इति वैयाकरणभूषणसारे देवतादिप्रत्ययार्थनिर्णयः ॥ १० ॥ दर्पणः गतिरत आह-आरोपितेति ॥ *विशिष्टशक्त्यैवेति । विशिष्टार्थस्येति शेषः ॥ वृत्तौ पक्षद्वयाभ्युपगमेन जहत्स्वार्थपणे तघटकपदाऽर्थनिरूपणस्यानुपयोगेऽप्यजहत्स्वार्थपक्षे विशिष्टशक्तिग्रहस्य प्रत्येकशक्तिनिरूपणोपजीवकतया तन्निरूपणस्यौचित्य. मेव । एतत्सूचनायैव मूलेऽतीवेत्युपात्तमिति रहस्यम् ॥ १९ ॥ इति भूषणसारदर्पणे देवतादिप्रत्ययार्थनिरूपणम् ॥ १० ॥ परीक्षा दानां समानाधिकरणत्वपूजनार्थत्वव्यवहारस्यापि का गतिरत आह-*आरोपितेति । 'प्रकृतिप्रत्ययादिकम् इत्युपलक्षणम् । सामानाधिकरण्यादिकमप्येवं विशिष्टशक्त्या। ... मनु यदि जहत्स्वार्थी वृत्तिरेवास्ति तदा मूले-'नात्रातीवेति' कथनमनुचितन्तत्रेत्येव तहि कुतो नोक्तम् । किञ्च विशिष्टे शक्तिश्च विशिष्टार्थनिरूपिता चेत्सर्वत्र सम्मता तदा "जहत्स्वार्था तु तत्रैव यत्र रूढिविरोधिनी" इति सिद्धान्तस्यापि नोपपत्तिरिति चेत् ? न । अवयवशक्तिमहसहकारेणैव समुदायशक्त्या बोधस्य दर्शनेन अवयवानामप्यर्थनिरूपयितुमुचितमेवेत्याशयात् ॥ ५५ ॥ इति श्रीमद्भूषणसारटीकायां परीक्षानामिकायां देवतादिप्रत्ययार्थ विवरणम् ॥१०॥
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy