SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ अथाऽभेदैकत्वसंख्यानिर्णयः॥ वृत्तिप्रसङ्गात् तत्राभेदैकत्वसङ्ख्या प्रतीयत इति सिद्धान्तं दृष्टा. न्तेनोपपादयति अभेदैकत्वसङ्घयाया वृत्तौ भानमिति स्थितिः॥ कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद् यथोच्यते ५६ सङ्खयाविशेषाणामविभागेन सत्त्वम्-अभेदकत्वसङ्ख्या । उक्तश्च वाक्यपदीये-- यथौषधिरसाः सर्वे मधुन्याहितशक्तयः। अविभागेन वर्त्तन्ते; सङ्ख्यां तां तादृशीं विदुः ॥ इति ॥ दर्पणः अथाभेदकत्वसंख्यानिर्णयः। ननु प्रकान्ते प्रातिपदिकघटकप्रत्ययार्थनिरूपणेऽभेदकत्वसङ्ख्या निरूपणमसङ्गतमत आह-*वृत्तिप्रसङ्गादिति । तथाच वृत्तिनिरूपणे क्रियमाणे स्मृतिपथप्राप्सतद्धर्मोपेक्षाऽनुचितेति प्रसङ्गसङ्गतिसत्त्वान्नोक्तदोष इति भावः । यद्यपि वक्ष्यमाणक्त्वाद्यन्तेऽपि कृवृत्तिसत्वात्तदनन्तरमेव सङ्ख्यानिरूपयितुमुचिता, तथापि तत्प्रकृत्यर्थे सङ्ख्याया अभानादाकाङ्क्षाविच्छेदः स्यादित्यत्रैव तन्निरूपितमिति बोध्यम् । अभेदैकत्वसव्यापदार्थे मतभेदेन द्विधा निर्वक्ति-*सङ्ख्याविशेषाणामिति । एकत्वत्वाचवच्छिन्नानामित्यर्थः । *अविभागेन*-अभेदेन, अविरोधेनेति यावत् । उक्ताऽर्थे हरिवाक्यं प्रमाणयति-*उक्तश्चेति । *आहितशक्तयः । आहिता समर्पिता तत्तदोषविभेदनिबन्धनविरोधरूपा शक्तियरित्यर्थः। त्यक्तविरोधा इति यावत्। अत एव-*अविभा. गेन । अविरोधेनेत्यर्थः । *ताम् । अभेदैकत्वसङ्ख्याम् । तादृशीम् । मधुनिष्ठरस . परीक्षा .. अथाभेदैकत्वसंख्यानिर्णयः। ननु प्रातिपदिकस्य निरूपणम्प्रस्तुतमतस्तद्धटकस्यैव निरूपणमुचितन्त्रत्वभेदकत्वसङ्ख्याया इत्यत आह-*वृत्तिप्रसङ्गादिति । अर्थविशिष्टवृत्तिनिरूपणमपि प्रस्तुतमिति वृत्तिधर्मा अपि निरूपयितुमुचिताएवेत्याशयः। अभेदैकत्वसङ्ख्यापदार्थम्मतभे. देन दर्शयति-*सङ्ख्याविशेषमित्यादिना**संख्याविशेषाणाम्*-सङ्ख्यात्वव्याप्यैकवत्त्वाचवच्छिन्नानामित्यर्थः। अविभागेनेति । अविरोधेन विरोधपरित्यागेनेतियावत्। तत्र हरिसम्मतिमाह-*उक्तञ्चेति । *आहितेति । आहितपदस्य स्थापितार्थकत्व. मन्यत्र प्रसिद्धं यद्यपि, तथापि प्रकृतोपयुक्तमर्थं स एवाह-*अविभागेनेति । एवञ्च दृष्टान्ते आहितपदस्य स्थापितार्थकत्वेऽपि दार्शन्तिके आहितशक्तय इत्यस्याहिता त्यक्तविरोधा शक्तिर्यरित्यर्थो बोध्यः । तत्तदोषाधिवृत्तित्वप्रयुक्तो योऽविरोधस्तस्य दृष्टान्तेऽपि त्यागो बोध्यः । हरिवाक्ये विभागेत्यस्य विरोधेनेत्यर्थः । *ताम् - अभेदैकत्वसङ्ख्याम् । *तादृशीम् -मधुनिष्ठरसस्थितितुल्यस्थितिकीम् । एवबैत.
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy