________________
३६४ दर्पणपरीक्षासहिते भूषणसारेपरित्यक्तविशेष वा सङ्ख्यासामान्यं तत् । उक्तञ्च--
भेदानां वा परित्यागात् सङ्ख्यात्मा स तथाविधः। व्यापाराजातिभागस्य भेदापोहेन वर्तते ॥
दर्पणः स्थितितुल्यामित्यर्थः।
नन्वेकत्वद्वित्वादीनामेकत्र सत्त्वमनुपपन्नम् । न हि द्वावेकत्वेन व्यवहियेते, नाsप्येको द्वाविति । "न हि द्विपुत्र" इति भाष्यात् ॥ किञ्च दृष्टान्तोऽपि न समञ्जसः । तत्तद्रसवदारब्धेऽवयविनि माक्षिकेऽवयवसजातीयरसान्तरस्यैवोत्पादाभ्युपगमादत आह-*परित्यक्तेति । वाशब्दः पक्षान्तरे। अगृहीतविशेषधर्मकं संख्यामात्रमित्यर्थः। पूर्वकल्पे उक्ताऽस्वरसाभिसन्धिकं वाक्यपदीयं तत्पक्षेऽपि प्रमाणत्वेनोपन्यस्यति-*भेदानामिति । *भेदानाम्*-एकत्वत्वद्वित्वत्वादिविशेषधर्माणाम् । *परित्यागाद् । अग्रहात् । इदञ्च व्यापारपदार्थेऽभेदेनाऽन्वयि ॥ *संख्यात्मा-संख्यास्वरूपः ॥ *सः*-एकत्वादिः ॥ *तथाविधः । अभेदैकत्वव्यपदेश्य इत्यर्थः । तदेव विशदयति-जातिभागस्येति । एकत्वत्वादेरित्यर्थः ।
*भेदापोहेनेति । भेदस्य विशेषणस्य योऽपोहोऽग्रहस्तेनेत्यर्थः ॥ यद्वा भेदापोहेनेत्यस्य व्यापारादित्यनेनाऽन्वयः। प्रकृत्यादित्वात् तृतीया। तथाचैकत्वत्वादेर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशेषणाऽत्मा ततो वर्त्तत इत्यर्थः ॥ “भेदाs
. परीक्षा न्मते एकत्वद्वित्वादेः सत्वेऽपि भेदकायें धर्मा एकत्वत्वादयस्तत्परित्यागेन सर्वासां स्थितिकर्तृत्वमात्रम् । सङ्ख्याया जात्यखण्डोपाध्यतिरिक्ततया स्वरूपतो भानासम्भवात् । एवं च राज्ञः राज्ञो राज्ञां वा पुरुष इत्येवं लौकिकविग्रहेऽपि राजसम्बन्धी पुरुष इत्येव शाब्दबोधः। ___ नन्विदमनुपपन्नम् , द्वित्वबहुत्वादीनां विरोधादेव स्थानासम्भवात्। अत एव "नहि त्रिपुत्रो द्विपुत्रव्यपदेशं लभते” इति भाष्यकृतोक्तम् । एवं मधुदृष्टान्तोपादानमप्यसङ्गतम् , तत्र नानाजातीयरसवदवयवारब्धे मधुनि इप्सान्तरोत्पत्तेरभ्युपगमात् । नीलादिनानाजातीयरूपवदवयवारब्धेऽवयविनि पटे चित्ररूपमत आह-*परित्यक्तेति* । अत एवोक्तं हरिणा
अभेदैकत्वसंख्याया तत्रान्यवोपजायते ।
संसर्गरूपं सङ्ख्यानामविभक्तन्तदुच्यते । वृत्तावुपसर्जनपदानां सत्वभूतत्वात् सङ्ख्यायोगस्यावश्यकत्वेनान्यासंसर्गरूपा सङ्ख्या जायत इति तदर्थः । एतन्मते-एकत्वत्वाद्यग्रहकालिकसंख्यात्वप्रकारकप्रतीतिविषयः संख्यापदार्थोऽभेदैकत्वसंख्याव्यपदेशो भवतीति फलितम् । एतदपि मतं हरिसूचितमित्याह-*उक्तञ्चेति। *भेदानाम्*-संख्याभेदकानाम् , एकत्वत्वादिरूपवि. शेषधर्माणाम् । एतेषां परित्यागश्च-ज्ञातधर्मवत्त्वेन ज्ञानविषयीभवनाभाव एव । सएकत्वादिः। *तथाविधः -अभेदैकत्वसङ्ख्याव्यपदेश्यः । जातिभागस्य जात्यात्मकध. मस्यैकत्वादेर्व्यापाराद्वर्तत इत्यन्वयः । तं व्यापारमेवाह-*भेदापोहनेति। भेदस्य वि