________________
अभेदैकत्वसंख्यानिर्णयः ।
३६५ मगृहीतविशेषेण यथा रूपेण रूपवान् ।... ....:
प्रख्यायते न शुक्लादिर्भेदापोहस्तु गम्यते । इति ॥ अस्याः वृत्तौ समासादौ; भानं न्यायसिद्धमिति शेषः । इति मतस्थितिर्वैयाकरणानाम् ।
अयम्भावः-राजपुरुष इत्यादौ, राज्ञो, राक्षोः, राक्षां वाऽयं पुरुष इति जिज्ञासा जायते । विशेषजिज्ञासा च सामान्यज्ञानपूर्विकेति सामान्यरूपेण तत्प्रतीतिः शब्दादावावश्यकी । अतस्तस्यां ।
दर्पणः पोहो न वर्तते” निवर्त्तते इति वा पाठे तु भेदरूपो योऽपोहोऽतद्वयावृत्तत्वम्, स न वर्तते न भासत इत्यर्थोऽवसेयः। पद्यान्तरावलोकनेनैतत्पाठस्यैव हरिसम्मतत्वमध्यवसीयते । द्वित्वत्वाद्यग्रहकालिकसङ्ख्यात्वप्रकारकप्रतीतिगोचरा · सङ्खयापदार्थोऽभेदैकत्वपदव्यपदेश्यो भवतीतिसमुदिताऽर्थः । तत्र दृष्टान्तमाह-*अगृहीतविशेषे. णेति* ॥ शुक्लत्वादिप्रकारकग्रहासमानकालिकरूपत्वप्रकारकप्रतीतिविषयेण शुक्लादिनैव यथा घटादी रूपवानिति प्रतीयते । शुक्लायो भेदरूपापोहः-शुक्लत्वादिरतव्यावृत्तिरूपः स तु न प्रतीयते । तद्वद्राजपुरुष इत्यादौ राजादिपदार्थः सङ्ख्यावानिति प्रतीयते, न तत्र सङ्खयांऽशे एकत्वादि भासते इत्यर्थः।। ___ तादृशसङ्ख्याभानस्य परानभ्युपेतत्वात् कथमियं स्थितिरित्यन्तराशेषपूरणेन व्याचष्टे-*वैयाकरणानामिति । ननु तादृशसङ्ख्याया वृत्तौ भाने कि प्रमाणमत आह*अयम्भाव इति । *समान्यज्ञानपूर्वकेति । तद्धेतुकेत्यर्थः। *आवश्यकीति* । तां
परीक्षा शेषस्य योऽपोहः अग्रहस्तेनेत्यर्थः । *व्यापारादिति । पञ्चम्यन्तस्याभेदेन तृतीयान्तेऽन्वयः। यद्वा भेदापोहपदार्थस्योक्तस्यैवाभेदेन सम्बन्धेन जातिभागस्य व्यापारराहित्ये तद्विशेषणत्वम् , तृतीया तु प्रकृत्यादित्वात् , धान्येन धनवानितिवत। एवञ्जैकत्वत्वादिर्जातिविशेषस्य भेदाग्रहरूपो यो व्यापारो विशषणात्मा तेन वर्तते । एकत्वत्वाद्यग्रहसमा. नकालिकसङ्ख्यात्वप्रकारज्ञानविषयः संख्यापदार्थोऽभेदैकत्वसङ्ख्यापदेनोच्यते इति फलितम। एतन्मते-राजपुरुषादिपदात्सङख्यावद्वाजसम्बन्धीत्याद्याकारको बोधः तन्त्र दृष्टान्तमाह-*अगृहीतेति। नगृहीतो विशेषे विशेषधर्मो यस्मिन्नेतादृशेन रूपेण रूप. त्वेन गृहितेन रूपेण रूपवान् प्रख्यायते, भेदरूपो यो अपोहो, विशेष:-विशेषधर्मः स तु न गम्यते इत्यर्थः । यथा-दूरस्थितो घटादिपदार्थः शुक्लत्वादिप्रकारकग्रहासमानकालिकरूपत्वप्रकारकग्रहविशेष्येण शुक्लादिनैव रूपेणायं रूपवानिति प्रतीयते, रूपगतो पोहो विशेषधर्मो न प्रतीयते, अपोहः-आतव्यावृत्तिः । विशेषधर्मात्मिकैवातव्यावृ. त्तिः, तथा राजपुरुषादिसमुदायादपि सङ्ख्यावद्राजसम्बन्धी पुरुष इत्याकारा प्रतीतिर्भवतीति भावः। ___ नन्वेवं बोधस्य परानभिमतत्वात्कथमियं स्थितिरत आह शेषपूरणेन-*वैयाकरणानामिति । अभेदैकत्वसंख्याया व्यावृत्तौ भाने साधकमाह-*अयमित्यादिना* *पूर्वि. केति । विशेषस्य जिज्ञासा सममिव्याहृतपदार्थतावच्छेदकावान्तरधर्मावच्छिन्नप्रका.