________________
३६६ दर्पणपरीक्षासहिते भूषणसारेशक्तिरिति । तस्या एकत्वेन प्रतीतौ न्यायमाह-*कपिजलेति* ॥
दर्पणः विनोक्तजिज्ञासाया अभावादिति भावः । सा च संख्या पूर्वोत्तरपदार्थयोः सम्बन्धवद् वृत्तिशक्त्यैव । अजहत्स्वार्थावृत्तिपक्षे पूर्वपदस्य संख्याविशेषवाचकत्वे गमका भावात् । तेन 'द्विपुत्रः' 'मौगिको' 'मासजातः' 'तावकीन: 'भवद्रािमवसरः' इत्यादौ वृत्तावभेदैकत्वसंख्याया अभावेऽपि न क्षतिः । ___आधे सङ्ख्याविशेषस्यैव पूर्वपदार्थत्वात् । द्वितीये, एकमुद्गस्य क्रयकरणायोग्यत्वात् बहुत्वाऽवगतिः। तृतीये विशिष्टकालावगमाय मासपदयोगात् संख्याध्यव. सायः। चतुर्थे तवकाद्यादेशवदेकत्वावगतिः। पञ्चमे प्रकरणाद् द्वित्वावगतिः। एवं कारकमध्य इत्यादावप्यूह्यम् । एकस्य मध्यासम्भवात् । सति प्रकरणे राजपुरुष इत्यादावपि संख्याविशेषप्रकारेणैव भानम् । तदा तत्रापि न तस्य वृत्त्यर्थत्वमिति। भेदो भेदसहिता द्वित्वादिसंख्या, तदभावसहितमेकत्वमभेदैकत्वमिति व्युत्पत्या संख्यात्वे. नैकत्वमेवोपसर्जनपदार्थे भासते। *तथा । अत एव “एकवचनमुत्सर्गतः करिष्यते" इति वचनाद्राजन् अस्-पुरुष-सु-इत्यलौकिकविग्रहे एकवचनं प्रयुज्यते । यत्र तु प्रकरणादिना संख्याविशेषभानं तत्र बहुवचनमपि यथा चित्रगुरित्यादौ-चित्रा-अस्गो-अस्' इत्यभिप्रेत्योत्तरग्रन्थमवतारयति-*तस्या इति । वृत्तिघटकपदार्थोपसर्जनव्यक्तरित्यर्थः ॥
परीक्षा रकज्ञानविषयकेच्छा सामान्यज्ञानपूर्विकैव यदा 'अयं ब्राह्मणः' इति ज्ञानन्नास्ति तदा को ब्राह्मण इति,जिज्ञासा न भवति । तादृशे ज्ञानसत्वे तु भवतीति सामान्यधर्मप्रकारकज्ञा. नस्य विशेषधर्मप्रकारकजिज्ञासाम्प्रतिकारणत्वमन्वयव्यतिरेकाभ्यां कल्प्यते। एवञ्च प्रकृ. तेऽपि संख्याजिज्ञासाया अनुरोधेन सङ्ख्यात्वेनादौ प्रतीतिर्भवतीति स्वीकरणीयमिति भावः। *शक्तिरिति । समासादेरिति शेषः। समासादेः समुदायस्य शक्तिः कल्प्यमाना संख्यात्वेन-संख्याविशिष्टे कल्प्यते इति यावत्। इयं संख्या न विभक्त्यर्थः। विभक्तेः सर्वनासत्वात्, किन्तु यथा सम्बन्धः पूर्वोत्तरपदार्थयोः समुदायशक्यस्तथा संख्यापि । ___ अयमभिसंधिः-यत्र यत्किञ्चिद्रूपे विशेषरूपेण संख्याप्रतीतिरप्यस्ति, तत्र विशेष. रूपेण सख्याया वाच्यत्वमङ्गीक्रियते । यथा-तावकीनो मामकीन इत्यत्रादेशेन "तवकममकावेकवचने” इति सूत्रेणैकार्थस्यादेशविधानेनादेशेनैवैकत्वनिश्चयस्य सम्भवा. त्तत्र वृत्तः संख्याविशेषे शक्तिर्न कल्प्यते । एवञ्च द्विपुत्रो आश्विको मासजात इत्यादेरपि न संख्याविशेषवाचकता । प्रथम सा पूर्वपदवाच्यैव । द्वितीये बहूनामेव क्रयादिसाधनत्वादाथिकी बहुत्वावगतिः । यत्र तु तादृशं गमकं नास्ति, संख्याप्रतीतिस्तु भवति, तत्र वृत्तः शक्तिः अलौकिके विग्रहे 'राजन् डस् पुरुष सु' इत्याकारके औत्सगिकैकवचनस्य सत्वमाश्रित्य समाससज्ज्ञा भवति। ततो राजपुरुषादिशब्दात्सङ्ख्या. त्वेन भानस्यानुभवसिद्धत्वे तस्मिन्नार्थे समुदायस्य शक्तिरनुमेया । अभेदे एकत्वमित्यस्याभेदसहितमेकत्वमित्यर्थः । द्वित्वादिकम्भेदाभेदसहितमेकत्वत्त्वभेदसहितमेव । तच्च सङ्ख्यात्वेनोपसर्जनं भासते । एवञ्च-यत्र सङ्ख्याविशेषस्य भाने प्रकरणादिक साधकमस्ति, तत्र संख्याविशेषस्य वृत्तिवाच्यत्वमाश्रीयत इति सिद्धम् । अत एव