________________
३६७
अभेदैकत्वसंख्यानिर्णयः। बहुत्वगणनायां त्रित्वस्यैव प्रथमोपस्थितत्वात् तद्रूपेणैव भानवद् एकत्वस्य सर्वतः प्रथमोपस्थितत्वमस्तीति भावः ।
दर्पणः *प्रतीताविति ॥ सङ्ख्यात्वावच्छिनैकत्वप्रकारतानिरूपितविशेष्यत्वेन बोध इत्यर्थः । उपसर्जनपदार्थे सङ्ख्यात्वेनैकत्वमेव प्रतीयते, न द्वित्वादीत्यत्र दृष्टान्तमाहेति यावत् ॥ *गणनायामिति ॥ बहुत्वविशिष्टानेकसंख्यासङ्ख्याने इत्यर्थः। “कपिञ्जलानालभेत" इति वाक्येन बहुत्वव्याप्यसंख्याविशिष्टकपिालालम्भनं विधीयते । तत्र त्रयाणां चतुरादीनां वालम्भनमिति संशये बहुत्वप्याप्यत्वस्य त्रित्वादिषु सर्वेष्वविशिष्टत्वाद्यथाप्राप्तमेवालब्धव्यमिति पूर्वपक्षे चतुरादीनामालम्भनं, "मा हिंस्यात्" इति सामान्यशास्त्रविहितनिषेधस्यालभ्यतावव्यक्तीतरपरत्वरूपतात्पर्यसङ्कोचकल्पने गौरवादू गणनायां प्रथमोपस्थितत्रित्वपरतयाऽपि वचनस्य चारितार्थ्याल्लाघवाच बहुत्वेन त्रित्वमेव बहुवचनाऽर्थ इति सिद्धान्तितम् । तन्न्यायादत्रापि संख्यात्वेनैकत्वस्यैव वृत्त्यर्थत्वम्, न तु द्वित्वादीनामप्रतीयमानविशेषधर्मकैकत्वमभेदैकत्वमिति व्युत्पत्तेरिति भावः । "निजां त्रयाणाम्" (पा० सू०७४।७५ ) इत्यादिनिर्देशैरस्मिन् व्याकरणे व्याप्तिन्यायस्यैवाश्रयणेन प्रकृते संख्यात्वेनैकत्वप्रतीतिर्हि दुरुपपादेत्यपि केचित्। । ननु जिज्ञासायां शाब्दमेव सामान्यधर्मप्रकारकज्ञानदर्शनमपेक्षितमिति न नियमः। आम्रादिफलदर्शनेनाऽपि तद्रसास्वादनेच्छाया उत्पत्या व्यभिचारात्। नचैवं सामाम्यधर्मप्रकारकज्ञानस्यव हेतुत्वं विलीयेतेति वाच्यम् । आम्रदर्शनस्योद्बोधकतया तद्रसस्मरणेन तदुपपत्तेः । प्रकृते तस्या अशक्यत्वेऽपि तदव्यभिचरितद्रव्यत्वेनाऽनुमानिकतबोधसम्भवात् तादृशजिज्ञासाया अननुभवाच्च नोक्तयुक्तिवृत्तेरभेदैकत्वसंख्यार्थत्वसाधिकेत्यभिप्रेत्याह-वस्तुत इति* ॥ *अनुभवसिद्धति* । अस्य, येन तदनुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकता स्यादिति शेषः । अभेदैकत्वसंख्याया वृतौ भानमिति मूलं तु प्राचीनग्रन्थानुवाद एवेति भावः। अनुभवसिद्धत्वस्य शपथनिर्णेयत्वं मत्वाह-*तथात्वे चेति ॥ वा शब्दोऽना
परीक्षा चित्रगुरित्यस्यार्थबोधनाय चित्रा गावो यस्येति लौकिकविग्रहमङ्गीकुर्वन्ति । *तस्या इति । वृत्तिघटकपदार्थोपसर्जनव्यक्तरित्यर्थः । प्रतीतौ संख्यात्वनिष्ठप्रकारतानिरूपितविशेष्यतावत्संख्यावत्त्वेन शाब्दबोधः । अत्रैकत्वत्वेन न भानम्, किन्तु सामान्यरूपेण । अन्यथा राजपुरुषादिसमुदायजन्यशाब्दबोधानन्तरं विशेषजिज्ञासा न स्यात् । सामा. न्यरूपेण भासमानसंख्याया त्रित्वेन व्यवहारस्तु कपिञ्जलालम्भन्यायेन प्राथम्यादिति भावः । एतदेवोपपादयति-*गणनायामिति । यथा 'कपिञ्जलानालभेत" इति वाक्ये बहुवचनोपादाने बहुत्वव्याप्यधर्मविशिष्टानान्त्रित्वादीनामुपस्थितावपि प्रथमतो गणनायान्त्रित्वस्यैवोपस्थितिरिति तद्विशिष्टस्यैवालम्भनमेतद्वाक्यबोध्यमिति कल्प्यते । चतुरादीनां "मा हिंस्यात्" इति निषेधशास्त्रस्याधिकविषयातिरिक्तविषयकत्वकल्प. नायामाङ्गौरवमिति त्रितयविषयकतयव सङ्कोचोऽतो वचनं सार्थकमिति सिद्धान्ति. तम् । तथात्र सङ्ख्यात्वेन प्रथमतो गणनायां प्रसिद्धं यदेकत्वं तस्य भानमाश्रयणीय. मिति भावः । यदि विशेषतो जिज्ञासाऽनुभवसिद्धा स्यात्तदा भवदुक्तरीत्या सामा