________________
३६८ दर्पणपरीक्षासहिते भूषणसारे__वस्तुतस्तु जिशासैव नानुभवसिद्धा । तथात्वे वा ज्ञानेच्छयोः समानप्रकारकत्वेनैव हेतुहेतुमद्भावात्तत्तद्रूपेणैव वाच्यता स्यादिति ध्येयम् ॥ ५६ ॥ इति वैयाकरणभूषणसारे अभेदैकत्वसङ्ख्यानिरूपणम् ॥ ११ ॥
दर्पणः स्थायाम् । अनुभवसिद्धत्वे चेत्यर्थः ॥ *समानप्रकारकत्वेनैवेति ॥ एवकारेण विभिनप्रकारकत्वव्यवच्छेदः । तद्धर्मप्रकारकेच्छां प्रति तद्धर्मप्रकारकत्वज्ञानस्य हेतुतायाः सुखादीच्छा-थले क्लुप्तत्वात्। प्रकृते विशेषधर्मप्रकारकजिज्ञासायाः सविषयविषयकत्वेन ज्ञानप्रकारीभूतविशेषधर्मप्रकारकत्वस्यावश्यकत्वेन तत्पदार्थविशेषधर्मप्रकारकज्ञानकार्य्यतावच्छेदकाक्रान्तत्वादिति भावः॥ . *तत्तद्रूपेणैवेति ॥ एकत्वत्वादिरूपेणैवेत्यर्थः । एवकारेण संख्यासामान्यधर्मव्यवच्छेदः । इष्टापत्तिस्तु न । तथा सति शब्दादेव विशेषधर्मावगतौ जिज्ञासाया असम्भवादिति भावः।
परीक्षा न्यरूपेणैकत्वद्वित्वादेर्वाच्यताङ्गीकर्तव्या। सैव तु नास्ति इत्याह-वस्तुत इत्या. दिना* । एतच्चोक्तकार्यकारणभावमभ्युपेत्य वस्तुतस्तादृशकार्यकारणभाव एव नास्ति, यत्र राजादिपदविशेषश्रवणेऽपि विशेषजिज्ञासा तच्छब्दश्रवणरूपोद्बोधकजनितोद्बोधनविशिष्टसंस्कारजातस्मरणेन तावते तत्र व्यभिचारात्। एवमामफलदर्शनमात्रेणैव स्मरणानन्तरं विशेषरसजिज्ञासाऽनुभवसिद्धा । तत्रापि व्यभिचारो द्रष्टव्यः। *जिज्ञासैवेति । 'राजपुरुष'इत्यादिश्रवणानन्तरजातशाब्दबोधोत्तरं राज्ञः, राज्ञोः, राज्ञां, वेति जिज्ञासैव नानुभवसिद्धेति । एवञ्च-कथं जिज्ञासानुरोधेन सामान्यधर्मप्रकारकज्ञानस्यावश्यकतेति शेषः । नतु जिज्ञासा जायते न घेत्यत्र निर्णयः । स यथा नेति निर्णयस्य सिद्धिः।
प्रकारान्तरेण भवतीत्याशयेनाह-*तथात्वे वेति । अनुभवसिद्धत्वे वेत्यर्थः। *समा. नप्रकारकत्वेनेति । यद्धर्मप्रकारकज्ञानमादौ भवति, तद्धर्मप्रकारिकैवेच्छा जन्यते इति । समवायेन तद्धर्मप्रकारेकेच्छाम्प्रति तद्धर्मप्रकारकज्ञानत्वेन कारणता इत्याकारकः का. र्यकारणभावः । यस्य पुरुषस्य 'सद्यः शुक्रकरम्पयः' इति ज्ञानं तस्य पयो जायतामि त्याकारकेच्छा भवति यथा । एवञ्च जिज्ञासा-ज्ञानेच्छा, तस्य ज्ञानातिरिक्तविषयकत्वं याचितमण्डनन्यायेन स्वविषयज्ञानविषयत्वेनैवेति । यदि विशेषधर्मप्रकारकज्ञानेच्छा जायते इति ब्रूषे! तदेच्छायां ज्ञानभिन्नविशेषपदार्थभाननिहाय विशेषधर्मप्रकारकज्ञानपूर्वकत्वमप्यस्तीति, अनापत्या भवता स्वीकार्यमिति सङ्ख्यात्वत्वाद्यवछिन्नेऽ. स्य वाच्यत्वं भवन्मते सिध्येत, नतु सामान्यरूपेण विशेषस्यवाच्यत्वसिद्धिरित्याशयः। *तत्तद्रूपेण* एकत्वद्वित्वत्वादिविशेषरूपेण । यदिष्टापत्तिस्तर्हि विशेषधर्मप्रकारकं ज्ञानं सिद्धमेव, तदा सिद्ध इच्छाविरहाजिज्ञासोच्छेदः । तथा च मूलोच्छेदात्तत्र शक्तिकल्पनमनर्थकमिति भावः । एतेन भवत्संमताया विशेषवति जिज्ञासा नैवास्तीत्यस्य सिद्धा. नभेदैकत्वसङ्ख्याया द्वितीयमतरीत्या न सिद्धिः, तथा च प्रथममतमेव युक्तमिति