________________
अभेदैकत्वसंख्यानिर्णयः ।
३६९
- दर्पणः अत्र वदन्ति-तद्धर्मप्रकारकज्ञानस्य कार्य्यतावच्छेदककोटौ स्वातन्त्र्येण तद्धर्मप्रकारकत्वं सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासाजनकत्वानुरोधान्निवेशनीयम् । अन्यथा सामान्यधर्मप्रकारकज्ञानस्योक्तजिज्ञासां प्रति हेतुत्वं विलीयेत ।
न च तत्र मानाभावः । जायते च कार्ये कारणे वा ज्ञाते किमस्य कार्य कारणं वा इति दीधितिकृद्वाक्यस्यैव मानत्वात् । प्रकृते विशेषधर्मस्य पारतन्त्र्येणैवेच्छांशे प्रकारत्वात्तद्धर्मप्रकारकज्ञानं विनापि सामान्यधर्मप्रकारकज्ञानात् तादृशजिज्ञासायाः सूपपादत्वात् । सामान्यधर्मप्रकारकज्ञानं तु विशेषधर्म प्रकारत्वावच्छिन्नविशेष्यकेच्छात्वमिति न गुणत्वसामान्यज्ञानात् सुखादीच्छाप्रसक्तिः, अधिकमन्यत्रानुसन्धेयम् । तथाचात्र जिज्ञासायाः सर्वसिद्धत्वे तदुपपत्तयेऽभेदैकत्वे वृत्तेर्वृत्तिरावश्यिका । एवञ्च "अभेदैकत्वसंख्याया वृत्तौ” इति मूलस्य सङ्गतिः । एतेन भेदस्य तत्सहचरितद्वित्वादेरेकत्वस्य च या प्रतीतिस्तदभाव इत्यर्थपरतया व्याख्यानं परास्तमिति ॥ १६ ॥
इति भूषणसारदर्पणेऽभेदैकत्वसंख्यानिरूपणम् ॥११॥
परीक्षा ध्वनितम्। ___ अत्रेदमवधेयम्-यदि विशेषधर्मप्रकारकजिज्ञासाम्प्रति सामान्यधर्मप्रकारकज्ञानस्योक्तरीत्याऽन्वयव्यतिरेकाभ्यां कारणत्वं युक्तमेव । अत एव दीधितिकृताऽनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयोऽर्थः सङ्गतिरिति सङ्गतिलक्षणस्योपजीवकत्वादौ सङ्गमनकाले जायते च कार्यकारणे वाज्ञाते किमस्य कारणं कार्य वेति जिज्ञासेत्युक्तम् । ज्ञानेच्छयोः सामान्यतो यः समानप्रकारकत्वेन कार्यकारणभावस्तेनान्यथासिद्धिस्तु न शङ्कनीया। तत्रेच्छानिष्ठा कार्यता तदवच्छेदकशरीरेऽधिकस्य निवेशात् ।
तथाहि-यस्या इच्छायाः स्वातन्त्रेण सविषयकत्वम् , ताम्प्रतीच्छाप्रकारकज्ञा. नस्य हेतुत्वम् । अत एव ब्राह्मणगृहमेतदिति ज्ञाने जाते ब्राह्मणत्वव्याप्यधर्मज्ञानञ्जाय. तामितीच्छा भवति, स्वीयैतादृशजिज्ञासाबोधनाय कस्य ब्राह्मणस्येति शब्दम्प्रयुक्त यदीच्छाज्ञानयोः कार्यकारणभावे स्वातन्त्र्यस्य निवेशो न स्यात्तदा ब्राह्मणत्वव्याप्यधर्मज्ञानज्जायतामितीच्छाया धर्मप्रकारकत्वात्ततस्तद्वयाप्यधर्मप्रकारकज्ञानस्य प्रा. क्षणवृत्तित्वाभावेन व्यभिचारः स्यात् । स्वातन्त्र्यनिवेशे तु नैतादृशेच्छायाः स्वातन्त्र्येण ब्राह्मणत्वव्याप्यधर्मप्रकारकत्वम् । किन्तु याचितमण्डनन्यायेनेव इच्छाया यकारणं ब्राह्मणत्वव्याप्यधर्मज्ञानं मदिष्टसाधनमितिज्ञानन्तज्ज्ञानविषयविषयकत्वमेव । स्वातन्त्र्यञ्चेच्छाया तद्धर्मप्रकारकत्वेनेति । एवञ्च-राजपुरुषादिपदजन्यशाब्दबोधानन्तरं यदि सङ्ख्यात्वव्याप्यधर्मज्ञानं जायतामितीच्छा भवतीति सर्वानुभवसिद्धम् । तदा तस्या इच्छाया न स्वातन्त्र्येण द्वित्वत्वादिप्रकारकत्वमिति नोक्तरीत्याभेदैकत्वसङ्ख्याया ज्ञाने नासो सम्भवः । परन्त्विच्छैव तादृशी तत्र जायते इति सर्वसहृदय सम्मतिनेत्येवैतन्मतनिराकरणबीजं युक्तमिति तत्त्वम् ॥ १६ ॥
इति श्रीमद्भूषणसारटीकायामभेदैकत्वसंख्यानिरूपणम् ॥ ११ ॥