________________
॥ अथ सङ्ख्याविवक्षानिर्णयः॥ सङ्ख्याप्रसङ्गादुद्देश्यविधेययोः सङ्ख्याविवक्षाविवक्षे निरूपयति• लक्ष्यानुरोधात् सङ्घयायास्तन्त्राऽतन्त्रे मते यतः ॥
पश्वैकत्वादिहेतूनामाश्रयणमनाकरम् ॥ ५७॥ "ग्रहं समाष्टि" इत्यत्रोद्देश्यग्रहगतमेकत्वमविवक्षितमितिवन्नास्माकमुद्देश्यविशेषणाविवक्षानियमः । धातोरित्येकत्वस्य विवक्षि. तत्वात् ।
उत्पद्येत समस्तेभ्यो धातुभ्यः प्रत्ययो यदि ।
तदा सर्वैर्विशिष्येत द्वन्द्वोत्पन्नसुबर्थवत् ॥ इति शब्दान्तराधिकरणे भट्टपादरभिधानाञ्च । “आर्द्धधातुक
दर्पणः
अथ सङ्ख्याविवक्षानिर्णयः। • सङ्ख्याविवक्षाऽविवक्षानिरूपणे सङ्गतिं दर्शयति-*प्रसङ्गादिति ॥ अभेदैकत्वस
यानिरूपणे 'कपिञ्जलानालभेत' इत्यत्र विधेयविशेषणतया त्रित्वसङ्ख्याविवक्षायाः स्मृतत्वाद् उपेक्षानर्हत्वाच्चेत्यर्थः॥ *अविवक्षितमितीति। तद्विवक्षणे यज्ञीययावत्पात्राणां मार्जनाऽलाभ इति भावः ॥ *धातोरितीति* ॥ प्रत्ययविधौ "धातोः” (पा०सू० ३।१।८१) इति सूत्रस्थधातुपदार्थविशेषणीभूतैकत्वादेरतच्छास्त्रे अविवक्षणादित्यर्थः । अस्मच्छास्त्रे तु उद्देश्यगतविशेषणस्याविवक्षा मीमांसकानामपि सम्मतेत्याह*उत्पद्यतेति ॥ विशेष्यतेति ॥ तदास प्रत्ययार्थः सर्वैर्धात्वथैविशिष्यतेत्यर्थः ।
ननु नेयं युक्तिर्विवक्षासाधिका, तादृशसमुदायस्य क्रियावचनत्वाभावेन ततः प्रत्ययोत्पत्तेर्गगनकुसुमायमानत्वेन स्वत एव विवक्षासत्त्वादत आह-*आर्द्धधातुक
परीक्षा
॥ अथ संख्याविवक्षानिर्णयः ।। सङ्ख्याया विवक्षायामविवक्षायाञ्च प्रसङ्गसङ्गति दर्शयति-*सङ्ख्याप्रसङ्गादिति* । प्रसङ्गश्च-स्मृतस्योपेक्षानहत्वमेव । अस्ति च प्रकृते स्मृतिसामग्री। अभेदैकत्वसङ्ख्याया निरूपणावसरे 'कपिञ्जलानालभेत' इत्यत्र विधेयविशेषणत्रित्वसङ्ख्या. विवक्षाया दर्शनात् । यथा-मीमांसकानाम्मते विधेयविशेषणसङ्ख्याविवक्षितोद्देश्यगतसंख्याविवक्षितेति नियमः, तथा नास्माकम्मते, इत्येतद्दर्शयति-*लक्ष्यानुरोधादित्यादिना । *तन्त्रातन्त्रत्वे-विवक्षाविवक्षे । *अविवक्षितमिति । यज्ञीयसर्वपात्राणां सम्माजनस्याभिमतत्वात् । *धातोरिरित्येकत्वस्य*-"धातोः" इति सूत्रजन्यबोधीयविषयतावद्धातुपदार्थतकत्वस्य । एतेनोद्दश्यगतापि सङ्ख्या विवक्षितेति सिद्धम् । स्वोक्तार्थे मीमांसकस्यापि सम्मतिं दर्शयति-*उत्पद्यतेति । *सर्वेविशेष्येतेति । स प्रत्ययार्थ इति शेषः।