SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ संख्याविवक्षादिनिर्णयः । ३७१ स्येड् वलादेः” (पा० सू० ७।२।३५) इत्यत्रानुवाद्यार्द्धधातुकविशेषणस्य वलादित्वस्य विवक्षितत्वाञ्च । ___ एवं “पशुना यजेत" इतिवद् विधेयविशेषणं विवक्षितमित्यपि नियमो न । "रदाभ्यां निष्ठातो नः पूर्वस्य च द" (पा० सू० । २०४२) इत्यत्र नकारद्वयविधानानापत्तेः। तथाच 'भिन्न' इत्यत्र नकारद्वयलाभो न स्यात् । “माद्गुणः" (पा० सू०६।१८७) इत्यादावेकत्वविवक्षयैवोपपत्तौ,, “एकः पूर्वपरयोः” ( पा० सू० ६८४) दर्पणः स्येड्वलादेरितीति* ॥ *विवक्षितत्वाच्चेति ॥ अन्यथा तदुपादानवैयापत्तेरिति भावः । *एवमिति* ॥ अनुवाद्यविशेषणमविवक्षितमेव । नियमाऽनाश्रयणवदित्यर्थः । 'पशुना यजेत' इत्यत्र यज्यर्थयागस्य करणाकाङ्क्षायां साधनत्वेन पशुविधीयते । एवञ्च पशुशब्दस्य विधेयसमर्पकतया तदुपस्थितानां केषाञ्चिद् ग्रहणे केषाञ्चित् परि. त्यागे मानाभावेन पशुत्वपुंस्त्वादिवदेकत्वमपि यागसाधनत्वेन विवक्षितम् । तेन नानेकपशुकरणयागाददृष्टसिद्धिः । एवमन्यत्रापि विधेयविशेषणं विवक्षितम् । अत्र विवक्षाकारणविरहादिति मीमांसकपरिशीलिता सरणिस्तदनुसरणनियमो नाऽस्माकमित्यर्थः। ____एतच्छास्त्रे तदाश्रयणेऽनिष्ट प्रदर्शयति-*रदाभ्यामिति* ॥ *विधानानापत्तेरिति* ॥ 'न' इत्येकवचनोपस्थितैकत्वस्यापि विधेयविशेषणतया तद् विवक्षायां नका. रद्वयविधानं न स्यादित्यर्थः। ननु मास्तु नद्वयविधानमत आह-*तथाचेति* ॥ इद. ञ्चैकवाक्यतया विधानमभिप्रेत्य, वाक्यभेदेन विधानपक्षे त्वाह *आद् गुण इत्यादाविति । *एकत्वविवक्षयैवेति ॥ विधेयगुणगतैकत्वविवक्षयैवेत्यर्थः । तथा चैकग्रहणमेवोक्तार्थे ज्ञापकमिति भावः। ननु पश्वेकत्वादिविवक्षातूनां जैमिनिसम्मतत्वान्न तदाश्रयणस्यानाकरत्वमित्या. ___परीक्षा ननु नेयं युक्तिरुद्देश्यविशेषणविवक्षासाधिका समुदायस्य क्रियावाचकं विना धातुत्वादत आह-*आर्द्धधातुकेति*। *विवक्षितत्वादिति । अन्यथा 'अवश्यलाव्यम्' 'अवश्यपाव्यम्' इत्यादाविडागमापत्तिः। - मीमांसकोक्तनियममपि खण्डयति-*एवमिति । 'पशुना यजेत' इत्यनेम याग. स्य यज्धात्वर्थस्य या साधनाकाङ्क्षा निवर्त्यते । एवञ्च विधेयसमर्पकस्य पशुनेत्यस्य पुंस्त्वैकत्वविशिष्टपशुबोधकतया द्वयोरपि विशेषणयोर्विवक्षा, नत्वेकस्य इति छाग्या यथा न यागाङ्गत्वम् , न तथानेकपशूनामपीति सिद्धान्तो मीमांसकानाम्, तदर्शनेना. स्माकं सर्वत्र विधेयविशेषणविवक्षेति दर्शयति-*रदाभ्यामिति । *लाभो न स्यादिति । तद्-एकवाक्यतया विधानमिति पक्षे । यदि तु भिन्नवाक्यतया विधानम् , तदा नास्माकं दोषः, अत आह-*आद्गुण इति*। *एकत्वविवक्षया*-विधेयगतैक. त्वस्य विवक्षया । एक्लैकग्रहणमिह शास्त्रे मीमांसकोकनियमस्यानाश्रयणे बीजमिति दर्शितम्भवति। ननु 'अनाकरम्' इति मूलोपात्तमसङ्गतम् , 'पशुना यजेत' इत्यत्र यदेकवचनन्तद
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy