SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३७२ दर्पणपरीक्षासहिते भूषणसारेइत्येकग्रहणवैयापत्तेश्चेति भावः । शब्दार्थस्तु सङ्ख्याया लश्याऽनुरोधात्तन्त्रातन्त्रे यतो मते, अतः पश्वैकत्वाधिकरणोक्तहेतूनामाश्रयणं नास्मत्सिद्धान्तसिद्धमिति । आदिना ग्रहकत्वसंग्रहः ॥५७॥ ननु विधेयविशेषणविवक्षा आवश्यकी । अन्यथा 'सुद्ध्युपास्य' इत्यादावनन्तयकाराद्यापत्तेः । 'भिन्न' इत्यत्र नकारद्वयवदन्येषामप्यापत्तेः । “एकः पूर्वपरयोः” इत्यत्रैकग्रहणश्च स्थानिभेदादादेशभेवारणायेत्यभिप्रेत्याहविधेये भेदकं तन्त्रमन्यतो नियमो न हि ग्रहकत्वादिहेतूनामाश्रयणमनाकरम् ॥५८॥ भेदकं विशेषणम् ॥ तन्त्रं विवक्षितम् । विधेयविशेषणं विवक्षितमित्यस्तु तथाऽप्यन्यतः--अनुवाद्यस्य नियमो न हि । क्वचित् तन्त्रं क्वचिन्नेत्यर्थः। दर्पणः शङ्कामपाकरिष्यन् योजनाप्रदर्शनमिषेणाऽऽकरपदार्थ व्याचष्टे-*शब्दार्थस्त्वित्यादि। पश्चकत्वाऽधिकरणोक्तहेतूनामिति ॥ 'पशुना यजेत' इत्यत्र विधेयगतैकत्वस्याविवक्षणे पश्वन्तरालम्भे प्रयोगप्रांशुभावबाधेन यागवैगुण्यापत्तिः । गुणानुरोधेन यागाsवृत्तौ प्रधानत्वभङ्गापत्तिर्यावत्पशुकरणकयागासम्भवश्चेत्येवमादयो दोषा हेतवस्तेषामित्यर्थः । सिद्धान्तसिद्धमिति॥ सिद्धान्तार्थप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः॥१७॥ *आदेशभेदवारणायेति* ॥ वस्तुतस्तु नैकग्रहणं विधेयगतविशेषणाविवक्षायां तन्त्रम् । “अनयोः पूलयोः कटं कुरु" इत्यादाविव "आद् गुण” इत्यादावपि "पूर्वपरयो" इति द्वन्द्वनिर्देशेनैकवाक्यतयैवोभयोः स्थाने एकविधानसम्भवात् स्थानिभेदा परीक्षा थंकत्वविवक्षाया जैमिनिसम्मतत्वादतस्तदर्थमाह-*शब्दार्थस्त्वित्यादिना । ऋतूनामिति* । यदि 'पशुना यजेत' इत्यत्रैकत्वमविवक्षितं स्यात्तदा यागोक्तक्रमस्य पञ्चन्तरालम्भने बाधेन यागवैगुण्यापत्तिः, क्रियायामभ्यावृत्या यागस्याप्यापत्तिरिति यागस्य प्रधानस्य गुणानुरोधेनावृत्तौ प्राधान्यस्य भङ्गः, यावताम्पशूनां यागकरणत्वासम्भवश्चेति हेतूनामित्यर्थः । *सिद्धान्तसिद्धमिति । सिद्धान्तप्रतिपादकमहाभाष्यादिसिद्धमित्यर्थः ॥२७॥ *स्थानिभेदादिति । "पूर्वपरयोः” इति द्विवचनात्तस्य स्थानिवत्त्वेनेतरेतरयोगद्वन्द्वे उभृतावयवभेदकसमुदायस्थानिवत्वादिति भावः । *आदेशभेद इति । सूत्रकाररीत्येदम् । भाष्यकाररीत्या तु-यथा-'अनयोः पूलयोः कटं कुरु' इत्यत एकस्यैव कटस्य करणत्वप्रतीतिस्तथा पूर्वपरयोगुणो भवतीत्यतोऽप्येकस्यैव गुणस्य प्रतीतिर्भविष्यतीति रीत्या सौत्रमेकग्रहणं प्रत्याख्यातम् ।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy