________________
संख्याविवक्षादिनिर्णयः ।
३७३ ग्रंहकत्वादौ यो हेतुर्वाक्यभेदादिस्तस्यात्राश्रयणमनाकरम् । एकत्वविशिष्टं धातुं वलादित्वविशिष्टमार्द्धधातुकचोद्दिश्य प्रत्ययेडागमादेविधिसम्भवादिति भावः ॥ ५ ॥ नन्वेवं भिन्न इत्यत्र नकारद्वयलाभो न स्यादित्यत माह--
रदाभ्यां वाक्यभेदेन नकारद्वयलाभतः । क्षति वास्ति तन्त्रत्वे विधेये भेदकस्य तु ॥५९॥
दर्पणः
न्नानेको गुण इत्येकग्रहणस्य भाष्ये प्रत्याख्यानादिति रहस्यम् । *वाक्यभेदादिरिति* ॥ “प्राजापत्या नव ग्रहा” इति वाक्यविहितग्रहोदेशेन सम्मार्गो विधीयते । "ग्रहं सम्माटिं” इत्यनेन तत्रानुवाद्यग्रहैकत्वविवक्षायामुत्पत्तिवाक्यगतसव्याया विरोधाद् वाक्यस्य यो भेदो विभिन्नविशेष्यकबोधजनकत्वं तदापत्त्यादीत्यर्थः ॥ अन्येतु-"ग्रहं संमाष्टि" तं चैकमित्याकारकवाक्यभेदापत्तिमाहुः। ___ आदिपदेनोत्पत्तिवाक्यगतनवत्वसङ्ख्यया ग्रहपदार्थस्य परिच्छिन्नत्वात्परिच्छेदकासाभावस्य ग्रहमिति द्वितीयया संस्कार्यत्वलक्षणाप्राधान्यबोधनात् “प्रतिप्रधान गणाऽऽवत्तिः" इति न्यायाद्विनिगमनाविरहात् सोमावसेकनिरासफलकसम्मार्गम्य सवैर्य हैरपेक्षणाद्विधेयपश्वादिविशेषणवत् क्रियाङ्गत्वाभावेन तद्वैकल्यप्रयुक्तक्रियावैकल्याप्रसक्तेश्च तद्विवक्षाविरहबीजस्य च संग्रहः । अनाकरमिति पूर्ववत् । इडागमादेरि. त्यादिना "उदीचामातः स्थाने यकपूर्वायाः" (पा० सू०६।३।४६ ) इति विहितेत्त्वसंग्रहः । तत्राऽऽकारस्थानिकमातमुद्दिश्येत्वविधानात् । अत एवेनिषेधविधायक
परीक्षा *वाक्यभेदादिरिति । अयम्भावः-'ग्रहं सम्माष्टि' इत्यनेन वाक्येन 'प्राजापत्या नव ग्रहाः' इति वाक्यविहितनवग्रहोद्देशेन सम्मार्गो विधीयते । यदि प्रकृतशब्दोपात्तमेकत्वं विवक्षितं स्यात् , तदोत्पत्तिवाक्यप्रतिपाद्यनवत्वसङ्ख्यया विरोधः स्यादिति 'ग्रहं सम्मार्टि' इति वाक्यस्यावृत्तिं कल्पयित्वा तत्तद्ग्रहविशेष्यकबोधजनकतास्य वाच्या । तथा च सम्मार्गविधायकवाक्यस्य ग्रहभेदेन भेदापत्तिरिति ।
किञ्च 'ग्रहं सम्मार्टि' तच्चैकमिति रीत्या वचनाभिव्यक्तिः स्यात् , तथा च वाक्यभेद स्पष्ट एव । आदिपदेन सङ्ख्याविवक्षाबीजाभावसङ्ग्रहः । तथाहिसङ्ख्यायाः सङ्ख्येयपरिच्छेदकत्वेन परिच्छेदकाकाङ्क्षया तस्याः सम्बन्धो वाच्यः, साचात्र नास्ति । ग्रहाणां यागाङ्गत्वबोधकं यत् "प्राजापत्या नवग्रहा" इति वाक्यं तेन नवत्वस्य प्राप्तत्वेन परिच्छेदकसङ्ख्यान्तरानपेक्षणात् । किन्तु ग्रहाणां संस्कार्य. त्वलक्षणप्राधान्यादू गुणस्य संमार्जनस्यावृत्तिरेव भवतीति । *अत्र*-एतच्छास्त्रघटकपदबोध्यसङ्ख्याविषये । *इडागमादेरिति । आदिपदेन "अनचि च" इति सूत्रविहितद्वित्वस्य सङ्ग्रहः । अत एव “एकाच उपदेशेऽनुदात्तात्" इति सूत्रव्याख्यानावसरेऽच इत्येकत्वविवक्षयेति व्याख्यानस्याप्युपपत्तिः ॥ १८ ॥
*एवम्*-मीमांसकोक्तरीत्या नियमाभावे । *न स्यादिति* । “भ्रस्जोरोपधयो"