SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३७४ दर्पणपरीक्षासहित भूषणसारे चकारसूचितं--निष्ठातस्य नः, पूर्वस्य दकारस्य च न इति वाक्यभेदमादाय नकारद्वयलाभ इत्यर्थः ॥ ५ ॥ इति वैयाकरणभूषणसारे सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥ दर्पणः "एकाच्” (पा० सू० ७।२।१०) इति सूत्रेऽच इत्येकत्वविवक्षादरेणानेकाच्त्वोपदेशव्यावृत्तिग्रन्थकृद्भिर्व्याख्याता। ___ वस्तुतस्तु ग्रहैकत्वदृष्टान्तेनात्राप्यनुवादविशेषणानां क्वचिदविवक्षाऽस्तु, तदितरविशेषणानां विवक्षायां तु न किञ्चिद् बाधकम् । मीमांसायामनुवाद्यांशे जातिलिङ्गससन्याऽतिरिक्तविशेषणास्यादर्शनात् । एषाञ्चोत्पतिवाक्यादेवावगमेनाऽऽनुषङ्गिकत्वाद. विवक्षा युज्यते । प्रकृते तु न तथेति बोध्यम् ॥ १८ ॥ ५९॥ इति भूषणसारदर्पणे संख्याया विवक्षादिनिर्णयः ॥ १२ ॥ परीक्षा इत्यत्रैव विधेयाकारगतैकत्वस्य विवक्षयाऽकारद्वयलाभो न स्यादित्यर्थः ॥ ५९॥ . इति श्रीमद्भुषणसारटीकायाम्परीक्षाभिधायां सङ्ख्याविवक्षादिनिर्णयः ॥ १२ ॥ सङ्ख्याति -
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy