SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ अथ क्त्वाद्यर्थनिर्णयः॥ क्त्वाप्रत्ययादेरथं निरूपयति । अव्ययकृत इत्युक्तेः प्रकृत्यर्थे तुमादयः ॥ समानकर्तृकत्वादि द्योत्यमेषामिति स्थितिः ॥६॥ तुमादयः-तुमुन्नादयः। प्रकृत्यर्थे-भावे । आदिना क्त्वादेः संग्रहः। भावे इत्यत्र मानमाह-*अव्ययकृत इति* ॥ “अव्ययकृतो भावे" इति वात्तिकादित्यर्थः। ननु “समानकर्तृकयोः पूर्वकाले” इत्यादिसूत्राणां का गतिस्त दर्पणः अथ क्त्वाद्यर्थनिर्णयः । अवसरसङ्गतिं क्त्वाद्यर्थनिरूपणे दर्शयति-*क्त्वाप्रत्ययादेरिति । प्रकृत्यर्थस्य फलेऽपि सत्त्वादाह-*भाव इति । तत्रापि सत्त्वभूते व्यापारे एव, न तु पूर्वकालादावित्यर्थः। पाक इत्यादाविव, पक्तुं, पक्त्वेत्यादिजन्यबोधे भावांश वैलक्षण्यस्याननुभवादिति भावः। वस्तुतस्तु पक्त्वेत्यादिजन्यबोधे भावे लिङ्गसङ्ख्यानन्वयित्वात् तदनुभूयत एव । एवं 'पक्तुमित्यादौ फलार्थकतुमुना साध्यत्वेन तद्बोधाच्चेत्युक्तप्रायमिति ॥ *का गतिरिति* ॥ तत्र पूर्वकाल इत्याधुपादानात् पूर्वकालादीनां वाच्यता प्रतीयते । भाव परीक्षा अथ क्त्वाद्यर्थनिर्णयः॥ धातोरित्यनुवादगतैकत्वविवक्षानिरूपणप्रस्तावे उक्तम् , तेन तत्प्रकृतिकप्रत्ययानां स्मृतत्वेन तद्धटकक्त्वाप्रत्ययार्थनिरूपणं करोति-*अव्ययकृत इत्यादिना* । "अव्ययकृत" इत्यस्य भाव इति शेषः । तेन फले प्रकृत्यर्थस्य सत्त्वेऽपिन क्षतिः। पक्क इत्यादौ कर्मादिप्रत्ययार्थत्वदर्शनादव्ययेति विशेषणम् । अव्ययसंज्ञाप्रयोजककृत इत्यथः । नच पाक इत्यादौ घनादेरपि भावाभिधायकत्वमस्ति तेषामव्ययेति विशेषणेऽसङ्ग्रह इति वाच्यम्। लिङ्गानन्वय्यर्थप्रतिपादकत्वेन क्त्वाप्रत्ययसजातीयनिरूपणस्य प्रकृतत्वात् का गतिरिति । तथाऽभिधानेन समानकर्तृकत्वस्य "कर्तरि कृत्" इत्यत्रैव वाच्यत्वस्य प्रतीतेरिति भावः। *अव्ययकृत इत्युक्तेरिति । अनेन मूलकृता समानकतकयोर्धात्वर्थयोरपूर्वकालावच्छिन्नार्थप्रतिपादकाद्धातोः प्रत्यय इति सूत्रजन्यशाब्दबोधे जातेऽर्थाकाङ्कायाम् "कर्तरि कृद्” इत्यस्यानुपस्थित्यर्थम् "अव्ययकृतो भावे" इति वार्तिकारम्भे सति समानकर्तकत्वादेः शाब्दबोधे भानं संसर्गविधयैव स्वीका. यमिति ध्वनितम्।
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy