________________
३७६
दर्पणपरीक्षासहिते भूषणसारेपाह-*समानकर्तृकत्वादिति* ॥ अयम्भावः-'भोक्तुं पचति, भुक्त्वा व्रजतीत्यादावेकवाक्यता सर्वसिद्धा भोजनपाकक्रिययोर्विशेषणविशेष्यभावमन्तरेणानुपपन्ना । अन्यथा भुङ्क्ते व्रजतीत्यादावप्येकवाक्यतापत्तेः। तथाच तयोविशेषणविशेष्यभावनिरूपकः संसगों, जन्यत्वं सामानाधिकरण्यं, पूर्वोत्तरभावो, व्याप्यत्वञ्चेत्यादिरनेकविधः । तथाच भोक्तुं पचति, भुक्त्वा तृप्त इत्यादौ भोजननिका पाकक्रिया, भोजनजन्या तृप्तिरिति बोधः। अत एव जलपानानन्तर्यस्य तृप्तौ सत्त्वेऽपि, पीत्वा तृप्त इति न प्रयोगः । सामानाधिकर
दर्पणः मात्रार्थकत्वे तु तदनुपपत्तिरिति भावः ॥ *समानकर्त्तकत्वादीति ॥ तथाच समानकतकयोर्धात्वर्थयोर्मध्ये पूर्वकालसम्बन्धी योऽर्थस्तद्वाचकात् क्त्वेत्यर्थेऽर्थाकाङ्क्षायां "कर्तरि कृदू" इत्यस्य प्रसक्त्या तद्बोधनाऽर्थ वातिकाऽऽरम्भेण भावस्यैव वाच्यता निर्धार्यते । कर्तुः प्रत्ययविशेषणत्वे तु समानकर्तरीत्येव ब्रूयात् । सूत्रोपात्तानां तु थोत्यत्वमेव, वर्तमानत्वादिति भावः। __ वस्तुतस्तु न द्योत्यतायामपि निर्भरः, संसर्गमर्यादयैव तद्भानसम्भवादित्याह*अयम्भाव इति ॥ *एकवाक्यतेति* ॥ “समानकर्त्तकयोः” (पासू० ३।४।२१) इत्यादिसूत्राणां धातुसम्बन्धाधिकारीयत्वादिति भावः ॥ *अनुपपन्नेति ॥ विशेष्यविशेषणत्वयोः संसर्गविषयतानिरूप्यत्वेन सम्बन्धं विना विशिष्टबुद्धरेवासम्भवात् सम्बन्ध भानं तद्वाच्यतां विनाऽप्युपपन्नमिति भावः ॥ *अन्यथेति ॥ विशेष्यविशेषणभावमन्तरेणाऽप्येकवाक्यताभ्युपगमे इत्यर्थः ॥ *सामानाधिकरण्यमिति ॥ एकाश्रयवृत्तित्वमित्यर्थः ॥ *पूर्वोत्तरभावः । स्वोत्तरसमयोत्पत्तिकत्वम् , स्वपूर्वसमयवृत्तित्वं वा॥ *व्याप्यत्वम् । अविनाभावित्वम् ॥ ___ तुमुनाद्यन्ते शाब्दबोधदिशमाह-*तथाचेति* ॥ *भोजनजनिकेति* ॥ जनकत्वस्यात्र संसर्गतेति स्फुटीकर्तृमियमुक्तिः । बोधाकारस्तु, भोजनविशिष्टेत्येव जनकत्व. स्यापदार्थतया अप्रकारत्वात् । क्रिययोर्जन्यजनकभावस्यापि सम्बन्धत्वे युक्तिमाह*अत एवेति ॥ जन्यत्वस्य संसर्गत्वाभ्युपगमादेवेत्यर्थः ॥ जलपानाऽऽन्तर्यस्येत्यनेन
परीक्षा
तदेतदाह-*अयम्भाव इत्यादिना । *एकवाक्यतेति । “समानकर्त्तकयोः इति सूत्रोपात्तयोरुभयपदार्थयोर्विशेष्यविशेषणभावस्यावश्यकत्वादिति भावः । नतु पदसमूहत्वमेवैकपाकत्वसिद्धौ च । *तथा चेति । सम्बन्धस्यानेकविधित्वे चेत्यर्थः। *जन्यत्वमिति । जन्यत्वपदजनकत्वस्याप्युपलक्षकम् । एवञ्च यत्र जनकत्वं संसर्गस्तत्र तस्य संसर्गस्य विशेषणनिष्ठत्वनियामकः संसर्गो जन्यत्वरूपः। विशेष्यनिष्ठत्वञ्चाश्रयतया जन्यत्वस्य, तत्वे तूभयनिष्ठत्वं जनकत्वाश्रयत्वाभ्याम् । *अत एव-जन्यजनकभावस्य संसर्गत्वस्वीकारादेव । जन्यजनकभावस्य संसर्गविधया भानमेवादृष्टवाक्यजन्यशाब्दबोधे भवतीति बोधनाय भोजनजन्येत्युक्तिः। शाब्दबोधस्तु-भोजनविशिष्टा पचिक्रियेत्यायेव । *सामानाधिकरण्यस्यापीति* । अपिना