________________
क्त्वाद्यर्थनिर्णयः ।
३७७
ण्यस्यापि संसर्गत्वेनार्थात् समानकर्तृकत्वमपि लब्धम् । भुक्त्वा व्रजतीत्यादौ पूर्वोत्तरभावः सामानाधिकरण्यश्च संसर्ग इति भोजनसमानाधिकरणा, तदुत्तरकालिकी व्रजनक्रियेति बोधः ।
अधीत्य तिष्ठति, मुखं व्यादाय स्वपितात्यादौ चाध्यनव्यादानयोरभावकाले अप्रयोगात्, यदा यदाऽस्य स्थितिः, स्वापश्च तदा तदाध्ययनं मुखव्यादानञ्चेतिकालविशेषाऽवच्छिन्नव्याप्यत्वबोधाद् व्याप्यत्वं सामानाधिकरण्यञ्च संसर्गः ।
"
दर्पणः
पूर्वोत्तर भावसम्बन्धसत्वं बोध्यते । तज्जन्यत्वविवक्षायान्तु प्रयोग इष्ट एवेति भावः । सामानाधिकरण्यस्य संसर्गताऽभ्युपगमस्तु यत्र पूर्वापरीभावापन्नभोजनतृप्त्योर्वैयधिकरण्यं तत्र भुक्त्वा तृप्यतीतिप्रयोगवारणाय अव्यवहितोत्तरत्वस्य तु दिनान्तरितपूर्वकालवृत्तिसमानाधिकरणभोजनादिक्रियामादाय क्त्वावारणाय । व्यवधानञ्च - तात्पवशाद्दण्डमुहूर्त्तादिना ग्राह्यम् । अतो भोजनानन्तरं दण्डादिव्यवधानेऽपि न तादृशप्रयोगानुपपत्तिरिति बोध्यम् ।
ननु पूर्वोत्तर भावस्य सम्बन्धताभ्युपगमेऽध्ययनकाले 'अधीत्य तिष्ठति' इति प्रयागानुपपत्तिः । स्थितावध्ययनानन्तर्य्याभावात् । एवम् 'मुखं व्यादाय स्वपिति' इति न स्यात् । ओष्ठपुटविभागरूपव्यादानकाल एव स्वापादिसत्त्वे तादृशप्रयोगस्येष्टत्वेन व्यादानस्य स्वापपूर्वकत्वाभावादत आह- अधीत्य तिष्ठतीत्यादि* ॥ *कालविशेषेति ॥ विभिन्नकालिकयोः कालिकसम्बन्धवटितव्याप्यव्यापकभावाभावेन तत्सम्बन्धावच्छिन्नत्वस्यापि संसर्गतोपगन्तव्या ।
८
न केवलं तत्र व्याप्यत्वस्यैव संसर्गता, किन्तु सामानाधिकरण्यस्यापीत्याह*सामानाधिकरण्यञ्चेति* ॥ नातो विभिन्नकत्तं कैककालिकाऽध्यनादिकमादायोक्तप्रयोगापत्तिः । इत्थञ्च -“समानकर्त्तृकयोः” ( पा० सू० ३।४।२१। ) इति सूत्रविहितक्त्वा - न्तस्थले समानकर्त्तकत्वरूपसामानाधिकरण्यसंसर्गस्य शाब्दबोधविषयता सार्वत्रिकी । जन्यत्वादीनां तु तात्पर्य्यवशात् क्वाचित्की सेति भावः ॥
अन्ये तु — सामानाधिकरण्यस्यैव पूर्वोत्तर भावस्यापि क्त्वान्तजबोधविषयता सार्व
परीक्षा
क्वचित्सामानाधिकरण्यस्य पृथक् संसर्गत्वाभावसमुच्चयः । तेन जन्यजनकभावस्य सामानाधिकरण्यनियतत्वेन विभिन्नपुरुषकर्त्तृकक्रियाद्वयमादाय 'न भुक्त्वा तृप्तः" इति प्रयोग इति ध्वनितम्। तच्च सामानाधिकरण्यं क्रिययोः स्वस्वनिरूपितकर्त्तृत्वसम्बन्धघटितम्बोध्यम् । इति बोध इति । एवं रीत्या विशिष्टबुद्धिनियामकः संसर्गः । *अभावादिति * - अप्रयोगादित्यर्थः । *संसर्ग इति । केवलसामानाधिकरण्यस्य संसर्गत्वे कालिकैकदिवसमात्र एवाध्ययनम् स्थितिस्त्वा फाल्गुनम्, तत्राधीत्य तिष्ठतीति प्रयोगापत्तिः, अतो व्याप्यत्वस्यापि संसर्गत्वस्वीकार इति बोध्यम् । यः पुरुषः सकृदेव चैत्रगृहे समागतो भोजन कृत्वा गतस्तत्रापि भुक्त्वा गत इति प्रयोगो भवति, तत्र व्याप्यत्वस्य संसर्गत्वे न फलम्, किन्तु - सामानाधिकरण्यसहितोत्तरत्वमेव । तच्च
४८ द० प०
,