________________
३७८
दर्पणपरीक्षासहिते भूषणसारेएवञ्चान्यलभ्यत्वान्न सूत्रात्तेषां वाच्यत्वलाभ इति युक्तम्-"अव्यय कृतो भावे” इति । __ एवञ्च प्रकृत्यर्थक्रिययोः संसर्गे तात्पर्य्यग्राहकत्वरूपं द्योतकत्वं क्त्वादीनाम् । अत एव 'समानकर्तृकयोः” इति सूत्रे स्वशब्देनोपा. त्तत्वान्नेति भाष्यप्रतीकमादाय पौर्वापर्यकाले द्योत्ये क्त्वादिर्विधीयते, न तु विषय इति भाव इति कैयटः।
दर्पणः त्रिकी। मुखं व्यादायेत्यादौ 'सुप्त्वा मुखं व्यादत्ते' इत्यत्रेव व्यादानोत्तरमपि स्वा. पानुवृत्तेस्तथा पौर्वापर्य्यमादाय प्रयोगोपपत्तिः ॥ एवञ्चोक्तसम्बन्धद्वयातिरिक्तसम्बन्धमानस्यैव काचित्कत्वमित्याहुः । न च
___ अवजानासि मां यस्मादतस्ते न भविष्यति ।
मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥ इत्यत्र मत्प्रसूतिमनाराध्य ते प्रजा न भविष्यतीत्यर्थाद्विभिन्नकर्त्तकादपि क्त्वादर्शनात् समानकर्तकत्वस्यापि क्त्वान्तजन्यबोधविषयता न सार्वत्रिकीति वाच्यम् । सूत्रस्वारस्यात् तादृशस्थले स्थित्यादिक्रियामध्याहृत्याऽनाराध्य स्थितस्येति बोधस्याऽभ्युपगमेन सार्वत्रिकत्वाऽक्षतेरिति ॥ ___ *अन्यलभ्यत्वादिति* ॥ आकाङ्क्षानियम्यत्वाद्वाक्यशक्तिलभ्यत्वाद्वेत्यर्थः॥ *क्रिययोः संसर्ग इति ॥ प्रकृत्यर्थविशेषत्वरूपस्य तस्यासम्भवेऽपि निरुक्तं यत्तदिह बोध्यमित्यर्थः ॥ *अत एवेति ॥ क्त्वाः समानकर्तृकत्वादिद्योतकत्वादेवेत्यर्थः ॥ *भाष्यप्रतीकमिति ॥ 'इह कस्मान्न भवति पूर्व भुङ्क्ते पश्चादू व्रजताति ? स्वशब्दे. नोपात्तत्वात्' इति भाष्यम् । तत्र समानकर्त्तकत्वेन पूर्वकालत्वेन च क्त्व आपादनम् ॥ *न तु विषय इति ॥ न तु प्रयोगघटकयत्किञ्चित्पदबोध्य इत्यर्थः। 'उक्तार्था
परीक्षा
स्वध्वंसाधिकरणक्षणवृत्तित्वम् । एवञ्च पञ्चम्याम्भोजनं कृत्वा स्थितेऽष्टम्याम्प्रातभुक्त्वा गते 'भुक्त्वा गत' इति प्रयोगापत्तिवारणायाव्यवहितत्वसहितमुत्तरत्वम्बो. ध्यम् । तच्चाव्यवधानम्प्रसिद्धम् । स्वध्वंसाधिकरणक्षणध्वंसाधिकरणक्षणध्वंसानधि. करणत्वे सति स्वाधिकरणक्षणध्वंसाधिकरणत्वरूपम् । घटिकामुहर्त्तदिनादिव्यवधानेऽपि भुक्त्वा व्रजति' इति प्रयोगस्येष्टत्वात् । अतस्तात्पर्य्यविषयघटिकादिकालमादाय स्वाधिकरणक्षणध्वंसाधिकरणक्षणादिकालावसानोत्पत्यधिकरणक्षणध्वंसोत्पत्यधिकरणक्षणवृत्तित्वरूपमेव । एवं कालविशेषावच्छिन्नव्याप्यत्वकथनेन कालिकसम्बन्धाव. च्छिन्नव्याप्यव्यापकभावः सूचितः । तथा सति भिन्नपुरुषकर्त्तकक्रियामादाय 'भुक्त्वा व्रजति' इति प्रयोगवारणाय सामानाधिकरण्यस्यापि संसर्गत्वमिति बोध्यम् ।। ___*एवञ्च*-उक्तानां संसर्गविधया भानसिद्धव । *अन्यलभ्यत्वादिति*-आ. कासालभ्यत्वादित्यर्थः । *अत एव । क्त्वः समानकर्तकत्वादिद्योतकत्वादेव । *भाष्यप्रतीकमिति । तत्र "इह कस्मान्न भवति, पूर्वम्भुङ्क्ते पश्चादू बजतीति, स्वशब्देनोक्तत्वात् । नच तीदानीमिदम्भवति पूर्वम्भुङ्क्त्वा ततो व्रजतीति,