________________
देवतादिप्रत्ययार्थनिर्णयः।
३५९
दर्पणः । इत्यादौ तद्धितार्थयुवापत्यैकदेशे गोत्रप्रत्ययान्तार्थस्य निरूपकतयाऽन्वयः। परन्तु “जीवति तु वंश्ये युवा" (पासू० ४।१।१६३) इति परिभाषणादू गर्गजीवनसमानकालिकत्वमपि प्रधानप्रत्ययार्थे विशेषणम् । तस्याऽपि प्रत्ययशक्यत्वात् । एवञ्च गर्गजीवनसमानकालिको गर्गगोत्राऽपत्यनिरूपितजन्यतावानयं पुमानिति बोधः । __ "तेन रक्तम्” (
पासू० ४।२।१) इति विहितप्रत्ययस्य तत्सम्बन्धाधीनतदीयरूपारोपविषयोऽर्थः । तादृशारोपविषयत्वमेव तेन रक्तत्वम् । “शङ्खः पीत" इत्यारोपमादाय शङ्खादेरारोप्यपीतिमाश्रयहरितालादिना रक्तत्ववारणायाधीनान्तमारोपविशेष
परीक्षा न्क्षयमासाख्ये पौषे प्रथमलक्षणस्याव्याप्तिरिति तादृशमलमाससङ्गमनाय द्वितीयम् । तथाहि-मलमासो द्विविधः, संक्रान्तिरहितः संक्रान्तिद्वययुक्तश्च । तदुक्तं काठकगृह्य
__ यस्मिन्वर्षे न संक्रान्तिस्संक्रान्तिद्वयमेव वा।
मलमासः स विज्ञेयो मासे त्रिंशत्तमे भवेदिति ॥ मलत्वमावश्यकत्वं स्वयं क्रियावाह्यत्वात् । तत्राद्यस्य मलमासस्य लक्षणमन्यत्राप्युक्तम्
अमावास्यापरिच्छिन्नरविसङ्क्रान्तिवर्जितम्।
मलमासं विजानीयाद्वर्जितं सर्वकर्मसु ॥ यदुक्तम्-'पूर्वस्मिन् ह्याश्विने मासे त्रिंशत्तम्' इति, तदाद्यमलमासपरम् । द्वितीयमप्याह सत्यव्रतः
राशिद्वयं यत्र मासे सङ्क्रमेत दिवाकरः।
नाधिमासो भवेदेष मलमासस्तु केवलम् ॥ इति अमावास्यापरिच्छिन्नो रविसंक्रान्तिवर्जितो यो मास तस्यैवाधिमासत्वम् । तदाह बादरायणः
"एकमासस्थिते सूर्ये यदि स्यादधिमासकः।
एक एव हि मासोऽसौ षष्टिभिर्दिवसैर्मतः ॥ इति । मासः शुक्लादिज्ञेयः। नच "आमावास्याद्वयं रविसङ्क्रान्तिवर्जितम् , मलमासः सविज्ञेय” इति वचने मलमासत्वममावास्याद्वयं यत्र 'रविसङ्क्रान्तिवर्जितं मलमासस्सविज्ञेय' इति वचनेन मलमासत्वममावास्याद्वयघटितस्यैव, नतु षष्ठिदिवसपरिच्छिन्नस्येति वाच्यम् , अमावास्याद्वयमित्यस्यामावास्याद्वयपरिच्छिन्नमित्यर्थात् एकषष्टिदिवसात्मकेऽपि मासे अमावास्याद्वयपरिच्छिन्नत्वमासे वाऽमावा. स्याद्वयस्य तादृशस्य तद्धटकत्वात् सक्रान्तिद्वयशून्यो मासः स सर्पसज्ञोऽधिमाससंज्ञश्च, संक्रान्तिद्वययुक्तो मासो न्यूनाख्योऽहस्पतिसज्ञश्च, अधिकमाससंज्ञके श्रावणस्य लक्षणं कर्कस्थे रव्यारब्धत्वघटितं तद्वितीयं लक्षणमपि तत्रास्त्येव । कर्कस्थरविसमाप्यो यो रविसङ्क्रान्तिमन्मास आषाढस्तद्भिन्नत्वस्य कर्कस्थ. रव्यधिकरणत्वस्य च तत्रासत्वात् । नच शुक्लप्रतिपदमारभ्य श्रावणस्य प्रारम्भे दर्शपर्यन्तं निशदिनपरिच्छिन्नमासस्य समाप्तिरिति कर्कस्थरवि समाप्य रविसङ्क्रान्तिमन्मासभिन्नत्वन्तत्र नास्तीत्यव्याप्तिः, तस्मिन् श्रावणे इति वाच्यम् , तादृशस्थले पष्ठिदिवसपरिच्छिन्नस्यैव मासत्वमिति कर्कस्थरविसमाप्यत्वस्य तत्रासत्वेन ताशा