________________
३५८
दर्पणपरीक्षासहिते भूषणसारे -
(४/२/२१ ) इति, “ तदस्यास्त्यस्मिन्निति मतुपू" ( पा० सू० ५|२|
दर्पण:
“तदस्यास्त्यस्मिनू" (पा०सू० १।२।८४) इति सूत्रेण प्रथमान्तादस्त्यर्थोपाधिकात् सम्बन्धिन्यधिकरणे च मत्वर्थीया विधीयन्ते । यद्यप्यस्येत्युक्तेः षष्ठ्यर्थसम्बन्ध इव मतुबादिविधानमाभाति; तथापि गोमांश्चैत्र इति सामानाधिकरण्यानुरोधात् सम्बन्धिवाचकतैवेत्युक्तं प्राक् । एवञ्च गोमानित्यादौ गोनिरूपितस्वामित्वसम्बन्धवानित्याद्यन्वयबोधः । नच
भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायिने I सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः ।
इति सम्बन्धसमकक्षतया भूमाद्यर्थानामप्युपादानात् तेषामपि मतुबादिशक्यत्वमिति शङ्कयम् । स्यादेवम्, यदि तेष्वर्थेषु मतुबादीनां विधायकं सूत्रादिकमुपलभ्येत, किन्तु प्रयोगोपाधित्वमेव तेषाम् । अस्त्यर्थवद् गवादिपदानां बहुत्वादिविशिष्टलाक्षणिकतयैव भूमादिप्रतीतिसौलभ्याच्च । अन्ये त्वस्तिशब्दान्मतुबर्थं तद्ग्रहणमित्याहुरित्यन्यत्र विस्तरः |
इत्यादिकमित्यादिपदात्, "तस्यापत्यम्” (पा०सू० ४।१।८२) “तेन रक्तं रागात्” (पा०सू० ४ | २|१|) “संस्कृतं भक्षा : " (पा०सू० ४।२।१६ ) इत्यादिसङ्ग्रहः । तत्र 'गार्गि:' इत्यादौ तद्धितार्थापत्यस्य जन्यपुरुषरूपस्यैकदेशे जन्यत्वे प्रकृत्यर्थगर्गादिनिरूपकतयाऽन्वयाद्गर्गनिरूपितजन्यता श्रयः पुमानित्यादिबोधः । 'गार्ग्य' इत्यादौ तु जन्यपुरुषजनकपुरुषाद्यात्मकगोत्रापत्यार्थैकदेशे जन्यत्वे प्रकृत्यर्थान्वयः । 'गार्ग्ययण'
परीक्षा
धात् । अथ स्थलपद्मे पडूजव्यवहारवद्वर्ष विशेषीय सौरपौषे मुख्यार्थबाधे का क्षतिस्तत्र पौषव्यवहारो लक्षणयास्त्विति चेद् ? तर्हि तस्मिन्वर्षे चान्द्रपौषमासनिमित्तकस्य दशम्याङ्कर्त्तुमर्हस्याद्विकश्राद्धस्य विलोपपत्तिः ।
ननु "नक्षत्रेण युक्तः काल” इति सूत्रेणान्प्रत्ययस्य प्रवृत्तिस्सर्ववर्षीय पौर्णमास्यां न सम्भवति, यस्मिन्वर्षे पौर्णमास्याम्पुनर्वसु नक्षत्रयुक्त शशिनः सत्त्वन्तस्यां व्यभिचारादिति चेद् ? न । अण्प्रत्यय प्रकृतिकरोहिण्यन्यतरस्मिन् लक्षणा, फाल्गुनशब्दे तु फल्गुनीशब्दस्य पूर्वोत्तर फल्गुनी हस्तान्यतमे भाद्रपदशब्दे भद्रपदाशब्दस्य शततारकापूर्वोत्तरभाद्रपदा, आश्विनशब्दे अश्विनीशब्दस्य रेवत्यादित्रितये लक्षणा । तदुक्तम्अन्त्योपान्त्यौ त्रिभौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः । शेषा मासाद्विभाज्ञेयाः कृत्तिकादिव्यवस्थया ॥ इति
अन्ये तु — पौषादिपदस्य केवलरूडत्वमेव नतु यौगिकत्वम् । पुष्यादियोगस्य पौर्णमास्यामनियमात् । रूढिनिरूपकतावच्छेदकञ्च - धनुस्थरव्यारब्धशुक्लप्रतिपदादिदर्शान्तमासत्वम् । धनुरादिस्थरविसमाख्यर विसंक्रान्तिमन्मासभिन्नधनुरादिस्थरव्यधिकरणशुक्लप्रतिपदादिदर्शान्तमासत्वं वा । धनुस्थरव्यारब्धत्वम् - कालिकसम्बन्धेन धनुस्थरव्यधिकरणाद्यक्षणकशुक्लप्रतिपदादिकत्वन्तद्यस्मिन्वर्षे कार्तिक शुक्लप्रतिपत् ४५।५० तदित एव वृश्चिकसङ्क्रान्तिः १४।३५ एतस्मिन् काले जाता तन्मासीयधटिका २९।३२ धनु सक्रान्तिस्तु दर्शसमाप्त्युत्तरम् ४४ . एतस्मिन्समये जाता तस्मि