SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ३५७ देवतादिप्रत्ययार्थनिर्णयः। "सोऽस्य निवास" (पा० सू० ४।३।८8) "सास्मिन् पौर्णमासी" दर्पणः र्थत्वव्यवच्छेदः ॥ तथाच दण्डाभिन्नप्रहारसाधनविशिष्टा क्रीडेति बोधः ॥ *सोsस्येति ॥ एतत्सूत्रविहितप्रत्ययस्य निवासः सम्बन्धी चार्थः । अत्र निवासशब्दोऽधिकरणधजन्तो-निशब्देन च वासे नैरन्तर्य्यरूपातिशयः प्रत्यायते । स च प्रकरणादिना तत्तत्कालवटितो ग्राह्यः । तथाच सृध्नाभिन्न-वासाऽधिकरणसम्बन्धीति बोधः। निवासश्च प्रत्यासत्या प्रत्ययार्थसम्बन्धकर्तृक एव । अत एव कादाचित्कसृघ्नावासकर्तरि न तथा प्रयोगः ॥ ___ *सास्मिन्निति । सूत्रविहिततद्धितस्य तु पौर्णमासीघटितत्वावच्छिन्नोऽर्थः । नक्षत्रयुक्तकालविहिताऽणाद्यन्तपोषादिशब्दानां पुष्यामिन्ननक्षत्रकर्मकशशिभोगाश्रयकालोऽर्थः। तस्योक्तार्थेकदेशपौर्णमास्यामभेदान्वयः । तथा च पौषो मास' इत्यादौ पुष्याभिन्ननक्षत्रकर्मकशशिभोगाश्रयकालाभिन्नपौर्णमासीघटितो मास इत्यादिबोधः । पौषादिपदं च न केवलयौगिकम् । 'पौषः पक्ष' इति व्यवहारविरहात्, किन्तु रूढमपि। एतद्बोधनायैव सूत्रे संज्ञाग्रहणम् । रूढिनिरूपकतावच्छेदकञ्च त्रिंशत्तिथिसमुदायत्वरूपमासत्वमात्रम् । यत्किञ्चित्तिथ्यवधिकत्रिंशत्तिथिसमुदाये मासादिव्यवहारेऽपि चान्द्रसौरपौषादिबहिर्भूतपौष्यादिघटितत्रिंशत्तिथ्यन्तर्गततिथिषु पौषादिव्यवहारविरहात्, किन्तु शुक्लप्रतिपदादिदर्शाऽन्ततिथिसमुदायत्वमतो नोक्तदोष इत्याद्यन्यत्र विस्तरः। . परीक्षा काले वर्तते । नच पौषीपौर्णमासीघटितत्वं यत्किञ्चित्पञ्चसंख्याकदिवससमूहे पक्षे वेतिः तत्रापि पौषादिव्यवहाराय तदिति वाच्यम् । “संज्ञायाम्" इति वार्तिकस्य तत्र सत्वात् । तथा च यत्र पौषादिपदस्य सौरचान्द्रादिभेदेन भिन्ने मासे रूढिस्तस्मिन्नेवाभिधेये प्रत्यय इष्यते । एवञ्च तत् पौषादिपदं न यौगिकमेव, किन्तु योगरूढम् । नचैवमपि रूढिनिरूपकतावच्छेदकत्रिंशत्तिथिसमुदायत्वं वक्तव्यम् । तथा च यत्किञ्चि. त्तिथिमारभ्य तिथिसमुदाये पौषीपौर्णमासीघटिते पौषव्यवहारोपत्तिरिति वाच्यम् । रूढिनिरूपकतावच्छेदकस्य तत्रासत्वात् । तत्र शुक्लप्रतिपदादिदर्शान्ततिथिसमुदायत्वम् । ___ नच यस्मिन्वर्षे मार्गशीर्षे शुक्लाष्टम्यान्धनुस्सङ्क्रान्तिमकरसंक्रान्तिश्च पौषनवम्याजाता तस्मिन्सौरपौषेऽपि पौषब्यहारो दृश्यते, तदनुपपत्तिरिति धनुस्थरविविशिष्टत्वमेव रूढ्यर्थतावच्छेदकमस्त्विति वाच्यम् । तादृशे सौरे यदि पौषव्यवहारो यदि मुख्यः स्यात् , तदा तस्य सौरस्य पौषीपौर्णमासीघटितत्वाभावेन योगार्थस्याभावेऽपि पौषत्वमभ्युपेयम् । तथा च योगरूढिलभ्यार्थस्य बाधापत्तिः । नचेष्टापत्तिः, 'सास्मिन्' इति सूत्रविरोधापत्तेरित्युक्तस्यार्थस्यैव रूड्या सौरपौषादौ पौषादि. व्यवहारस्य गौणत्वात् । नच संज्ञाशब्दानां यथाकथञ्चिदव्युत्पादन क्रियते, तत्रावयवार्थस्यासत्वेऽपि साधुत्वस्य स्वीकारः सर्वसम्मतः । रथन्तरकुशलप्रवीणादिपदे यथा । एवञ्च धनस्थरविविशिष्टत्वस्य रूढयर्थतावच्छेदकत्वं स्वीकृत्य सौरपौषव्यव. हारो मुख्योऽस्त्विति वाच्यम् । "सज्ञायाम्" इत्युपादाय योगार्थव्युत्पादनविरो
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy