SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३५६ दर्पणपरीक्षासहिते भूषणसारे*देवतायाम्-देवतात्वेन रूपेण । निरूढेति =अनुपपत्तिज्ञानापूर्वक त्वमनादिप्रयोगावच्छिन्नत्वं वा तत्त्वमिति भावः ॥ ५४॥ भनयैव रीत्यान्यत्राप्यवधेयमित्याह क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता ॥ वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥५५॥ "तदस्यां प्रहरणमिति काडायां णः" (पा० सू० ४।२।५६) इत्यत्र प्रहरणविशिष्टा क्रीडा प्रहरणक्रीडे क्रीडामात्रं वार्थः । आदिना, . दर्पणः नन्विन्द्रादिपदाच्छक्त्यैव देवतालाभे तत्र लक्षणाभ्युपगमो व्यर्थोऽत आह-*देवतात्वेन रूपेणेति ॥ तथाच "शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा” इतिवृद्धोक्तेदेवताया इन्द्रस्वरूपायाः शक्यत्वेऽपीन्द्राभिन्नदेवतात्वेन तद्भानार्थे सोचिरैवेति भावः। अनुपपत्तिज्ञानपूर्विकायामपि तीरनिष्ठगङ्गापदलक्षणायां निरूढत्वव्यवहारादाह*अनादीति* ॥ एतत्तत्वमभिहितं प्राक् ॥ ५४॥ _____ एकदेशान्वयप्रसङ्गमाह-*प्रहरणक्रीडेति* ॥ व्युत्पत्तिवैचित्र्यादेकपदोपस्थितयोरपि तयोः परस्परमन्वय इति भावः ॥ प्रहरणस्यापि प्रकृत्यैव लाभमभिप्रेत्याह*क्रीडामात्रम्वेति* ॥ क्रीडारूपसम्बन्धे वेत्यर्थः॥ मात्रपदेन तत्प्रहरणस्य तद्धिता परीक्षा ननु देवताया इन्द्रादिपदादेव लाभात्पुनस्तत्र लक्षणाकल्पनमनर्थकमत आह*देवतात्वेनेति । एतेनेन्द्रपदाहेवतात्वेन रूपेण लाभेऽपि देवतात्वरूपेण शाब्दबोधे देवताया भानसिद्धये लक्षणा आश्रयणीया, 'शक्यादन्येन रूपेण ज्ञाते भवति लक्षणा' इति सिद्धान्तो व्यवस्थितः। सच गंगापदस्य तीरे लक्षणा निरूटेति व्यवहारो वा ह. श्यतेः तस्य कथमुपपत्तिः, अनुपपत्तिज्ञानस्य तत्पूर्ववत्तित्वादिति चेदू ? अनुपपत्तिज्ञान. पूर्विका लक्षणा सा निरूढेति वाच्यम् । तथा च प्रकृतेऽनुपपत्तिप्रतिसंधानाभावात्कथं निरूढत्वमत आह-*अनादीति । अनानादित्वम्पारिभाषिकं प्रागभिहितम् ॥१४॥ *अनयैव रीत्येति । यथा “सास्यदेवता" इति सूत्रविहिततद्धितप्रतिपादितेऽर्थे प्रकृत्यर्थान्वय एकदेशे यदि स्वीक्रियते तदा विशिष्टे शक्तिः । एकदेशान्वयानङ्गीकारे खण्डशः शक्तिरिति तथान्यतद्धितार्थस्थलेऽप्यन्वय इति भावः । प्रहरणस्यापि प्रकृत्या दण्डेत्यादौ लाभादाह-*क्रीडामात्रमिति* । दण्डेतिशब्दात् दण्डाभिन्नप्रहरणविशिष्टा क्रीडेति बोधः । प्रहरणवैशिष्टयं च-जन्यत्वसंबन्धेन “सोऽस्य निवास इति सूत्रविहिततद्धितस्य निवासः संबन्धी चार्थः। निवासशब्दोऽधिकरणघनन्तः । एवञ्च स्रोग्घ्नशब्दात् स्रुघ्नाभिन्ननिवासाधिकरणसंबन्धीति बोधः । “सास्मिन्” इति सूत्रविहिततद्वितस्य पौर्णमासी-अधिकरणत्वार्थः । एवञ्च पौषपदात् पौष्यभिन्नपौर्णमास्यधिकरणमिति बोधः । अधिकरणत्वञ्च-घटितत्वरूपम् । पौषीपदञ्च "नक्षत्रेण युक्तः कालः" इति सूत्रविहिताणन्तप्रकृतिकङीबन्तम् । तत्र नक्षत्रशब्दस्तत्तन्नक्षत्रयुक्तचन्द्रयुक्त
SR No.023384
Book TitleVaiyakaran Bhushansara
Original Sutra AuthorN/A
AuthorShreekaund Bhatt, Sadashiv Shastri Joshi
PublisherChaukhambha Sanskrit Series Office
Publication Year1996
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy