________________
देवतादिप्रत्ययार्थनिर्णयः। ३५५ आख्यातस्य कर्तृवद्वाच्यत्त्वं मास्त्विति कुतोन शक्यते वक्तुमिति दिक् ।
दर्पणः आक्षेपालाभेन सामानाधिकरण्योपपत्तेरिति भावः । पदान्तरादित्याक्षेपस्याऽप्युपलक्षणम् ॥ *वाच्यत्वं मास्त्विति । आंख्यातस्य कर्तेव तद्धितस्य द्रव्यं वाच्यं मास्त्वित्यर्थः । इष्टापत्तौ "आमिक्षां देवतायुक्ताम्" इति त्वत्सिद्धान्तभङ्ग इति भावः।
ननु तेषां कर्तुरनन्यलभ्यत्वान्न प्रत्ययाऽवाच्यत्वं, किन्तु प्राधान्यापत्तेरेव तत्त्वमत आह-दिगिति । तदर्थदस्तु "प्रकृतिप्रत्ययार्थयोः” इति न्यायस्य सङ्ख्यादौ व्यभिचारेण तेन प्राधान्यापत्यभावात् । “भावप्रधानमाख्यातम्" इति निरुक्तात्तस्याख्यातार्थाऽतिरिक्तप्रत्ययाऽर्थविषयकत्वोपगमाच्चेति ।
अत्रेदम्बोध्यम्-तद्धितस्य देवतात्वाघटितार्थकत्वे, “तद्धितेन चतुर्थ्या वा” इति न्यायस्य सर्वसिद्धस्यानुपपत्तिः । नच तद्धितस्य तदर्थकत्वेऽपि कथं तदपेक्षया चतुर्थ्या जघन्यत्वं त्यागोद्देश्यकत्वरूपदेवताबोधकत्वस्योभयत्राविशिष्टत्त्वादिति वाच्यम् । न हि देवतासम्बन्धिदेयमानं तद्धितार्थः, किन्तु वेदबोध्यदेवतात्वघटितः । एवञ्च तद्धिता. न्तेन बोधस्य देवतात्वांऽशे वेदबोध्यत्वाऽवगाहित्वेन तदंशे अप्रामाण्यशङ्काया अनुदयाज्झटिति विनियोजकतया बलवत्वम् , चतुर्थ्या तु तदंशे वेदबोध्यत्वावगाहिबोधस्यैव जननेन तत्राप्रामाण्यशङ्कानिरासार्थमुपायान्तरस्यापेक्षणाजघन्यत्वम् ।
यद्वा तद्धितेन देवतात्वेन रूपेण देवताबोधे “साऽस्य देवता" (पा० सू० ४।२।२४) इति स्मरणमस्ति । चतुर्थ्यास्तु देवतात्वे न स्मरणम् । “चतुर्थीसम्प्रदान" ( पा०सू० २॥३।१३) इति सम्प्रदान एव तत्स्मरणात् । सम्प्रदानत्वं च त्यज्यमाभद्रव्योद्देश्यकत्वे सति प्रतिगृहीतृत्वम् । एवञ्च ततः सम्प्रदानत्वघटकतया देवतात्वप्रतीतावपि तद्धितादिवन्मुख्यतया देवतात्वानधिगमात् तस्यास्तद्धिताऽपेक्षया जघन्यत्वम् । एवं मन्त्रवर्णादधिष्ठानप्रतीतावपि देवतात्वस्य साक्षादप्रतीतेमन्त्रवर्णस्य चतुर्थ्यपेक्षया जघन्यत्वं बोध्यम् । तद्धितस्य देवतार्थकत्वाऽनभ्युपगमे तु तदसङ्गतिः स्पष्टैवेति ।
__ परीक्षा क्तेराक्षेपाच्छब्दबोधे भानं भवति, तद्देवतात्वमेव वाच्यं स्यात् । देवताया आक्षेपालामात्सामानाधिकरण्यं भविष्यतीति विरोधाभावः। *वाच्यत्वम्मास्त्विति । आख्यातस्य कत्तेंव तद्धितस्य द्रव्यं वाच्यं मास्त्वित्यर्थः । इष्टापत्तिस्तु भवता कर्तुमशक्या । .
___आमिक्षा देवतायुक्तां वदत्येवैष तद्धितः ॥ इत्येतद्वचनविरोधात्।।
ननु कर्तुळ वाच्यत्वं प्राधान्यापत्तिभियोच्यते । नत्वन्यलभ्यत्वं तस्येति बुद्ध्या कल्प्यस्तदिति चेद् ? न । नच कर्तुः प्राधान्यापत्तौ "प्रकृतिप्रत्ययौ इति वचनस्यानुरोधबलवत्वन्तु नास्तिः, तस्य नियमस्य संख्यायां व्यभिचारादतस्तस्यौत्सर्गिकत्वं सर्वेः कल्पनीयमेवेति प्रत्यवार्थे संख्याभिन्नत्वविशेषणस्थले आख्यातातिरिक्तत्वमेव "भावप्रधानमाख्यातम् , सत्वं प्रधानानि नामानिइति वचनादुपादेयमिति कर्तुराख्यातार्थत्वेऽपि प्राधान्यापत्तेर्वारणसम्भवात् । .......