________________
३५४
दर्पणपरीक्षासहिते भूषणसारेन च देवतात्वेन रूपेणोपस्थितये सा कल्प्यते । प्रकृतेर्लक्षणयैव तथोपस्थितिसम्भवात् । उपसर्गाणां द्योतकत्वनये प्रजयतीत्यत्र प्रकृष्टजयप्रत्ययवदित्यभिप्रेत्याह
प्रदेय एव वा शक्तिः प्रकृतस्त्वस्तु लक्षणा ॥ देवतायां निरूढेति सर्वे पक्षा अमीस्थिताः॥५४॥ न च 'ऐन्द्रं दधि' इत्यादौ द्रव्यस्य पदान्तराल्लाभात् कुतः पुनः प्रत्ययस्य तत्र शक्तिः कल्प्यत इति वाच्यम् । पदान्तराश्रवणेऽपि तत्प्रतीतेः। ऐन्द्रं दधीति सामानाधिकरण्याच्च ।
अन्यथाऽऽख्यातस्यापि कर्तृकर्मवाचित्वं न स्यात् । मीमांसकानां पुनः प्रत्ययस्य देवतात्वमेवार्थोऽस्तु। द्रव्यं पदान्तराल्लभ्यत एवेति
दर्पणः *द्योतकत्वनय इति । वाचकत्वनये प्रकर्षस्योपसर्गाऽर्थत्वेन तद्विशिष्टे धातोर्लक्ष. णाया अकल्पनेन दृष्टान्तत्वासम्भवादितिभावः ॥ *प्रकृष्टजयवदिति । प्रकृत्यंशमात्र. मादाय दृष्टान्तत्वं बोध्यम् ॥ *लाभादिति । समभिव्याहृतदध्यादिपदेन देवतारूपस. म्बन्धिलाभादित्यर्थः ॥ कुतः पुनरिति । "अनन्यलभ्यो हि शब्दार्थ” इति न्यायात् । किन्तु सम्बन्धार्थकत्वमेवोचितमिति भावः ॥ *तत्प्रतीतेरिति । देवतासम्बन्धिप्रतीतेरित्यर्थः । तथाच तदनुपपत्त्या तद्धितस्य तदर्थकत्वमावश्यकमिति भावः । __पदान्तराश्रषणे सम्बन्धिप्रतीतेश्च शपथनिर्णेयत्वादाह-*ऐन्द्रं दधीति । सम्बन्धमानार्थकत्वे सामानाधिकरण्यानपपत्तिरित्यर्थः॥ *अन्यथेति*। उक्तानपपत्तेस्तदसाधकत्वे इत्यर्थः । 'पचति देवदत्तः' 'पच्यते तण्डुल' इत्यत्र सामानाधिकरण्यानुपपत्तिर्हि कादिवाचित्वसाधिकेति भावः ।। वैयाकरणान् प्रतीयमापत्तिः । मीमांसकान् कटाक्षीकृत्याह-*मीमांसकानामिति । तन्मते तत्तदेवताकत्वरूपप्रत्ययार्थेन धर्मिण
परीक्षा शङ्कते-*नचेति*। *देवतात्वेन रूपेणेति । इन्द्रत्वेन रूपेणेन्द्रशब्दाल्लाभेऽपीत्यादिः। प्रकृतेः इन्द्रादिशब्दस्य लक्षणयैव इन्द्रभिन्नदेवतात्वावच्छिन्ने लक्षणेष्टैव । *प्रकृष्टजयवदिति* दृष्टान्तोपादानं प्रकृत्यंशे लक्षणाभिप्रायेण । फललक्षणेत्याकाङ्क्षायामाह*देवतायामिति । *द्रव्यस्य*-देवतादिद्रव्यस्य । एवञ्च प्रत्ययस्य सम्बन्धार्थकत्वमेवोचितमिति भावः। *तत्प्रतीते:*-देवतासम्बन्धिदेयप्रतीतेः। सम्बन्धमात्रस्य प्रत्ययवाच्यत्वे सामानाधिकरण्यमप्यनुपपन्नमित्याह-*ऐन्द्रमिति । *अन्यथाउक्तानुपपत्तेरसार्वत्रिकत्वे । *न स्यादिति । वैयाकरणमत इति शेषः । एवञ्च-पचति चैत्रः' इति शब्दजन्यसामानाधिकरण्यावगाह्यनुभवविरोधः। ननु मास्तु सामानाधिकरण्यमिति चेद् ? न । समानवचनकत्वानुपपत्तेः । मीमांसकमतन्त्वयुक्तमित्याशयेनाह*मीमांसकानामिति । तन्मते घटत्वादिजातेघटादिशब्दवाच्यत्वेऽपि यथा, तथा व्य