________________
३५३
देवतादिप्रत्ययार्थनिर्णयः। केवलाद्देवतावाची तद्धितोऽग्ने समुच्चरन् ।
नान्ययुक्तोऽग्निदेवत्यं प्रतिपादयितुं तमः ॥ इति च मीमांसकैरप्युक्तमित्याशयेनाह
प्रत्ययार्थस्यैकदेशे प्रकृत्यों विशेषणम् ॥५२॥ अभेदश्चात्र संसर्ग आग्नेयादावियं स्थितिः॥ देवतायां प्रदेये च खण्डशः शक्तिरस्तु वा ॥५३॥ एकदेशे देवतारूपे । तच्च विशेषणमभेदेनेत्याह-*अभेदश्चेति ॥ ननु देवतायाः प्रत्ययार्थैकदेशत्वान्न प्रकृत्यर्थस्य तत्राभेदेनाप्यन्वय इत्याशयेनाह-*देवतायामिति* ॥ तथाच पदार्थैकदेशव नास्तीति भावः॥ ५३॥ नन्वग्न्यादिदेवस्य प्रकृत्यैव लाभान्न तत्र शक्तिः कल्प्या ।
दर्पणः णमिति ॥ आमिक्षात्मकद्रव्यस्यैव देवतोद्देश्यकत्यागकर्मत्वप्रतीतिरित्यर्थः । ___ *केवलादिति ॥ सोमादिपदासमभिव्याहृतात् ॥ *अग्नेः समुच्चरन् । प्रत्ययत्वादग्निशब्दात् पुरः प्रादुर्भवन् । “आग्नेयोऽष्टाकपालो भवत्यमावस्यायाम्" इत्या. दौ ॥ *नान्येति ॥ सोमादिसाहित्यापन्नाग्निदेवतोद्देश्यक द्रव्यं प्रतिपादयितुं नेष्टे, किन्तु तद्देवताकमेवेति तद्भावः। तथाच देवताविशिष्टदेयस्य तद्धितार्थत्वं तेषामपि सम्मतमिति भावः॥ ___ *प्रकृत्यर्थेति ॥ पदार्थः पदार्थनाऽन्वेति' इति व्युत्पत्तेरिति भावः ॥ अस्मिन् कल्पे च प्रकृत्यर्थस्याभेदसम्बन्धेन देवतास्पतद्धितार्थेऽन्वयः । तस्य च स्वोद्देश्यकत्यागकर्मत्वसम्बन्धेन द्रव्यरूपतद्धिताऽपरपदाथै इति बोध्यम् ॥ ५३॥ .
परीक्षा मिति । गमकत्वादर्पणपदेन विषयपदस्य समासापेक्षत्वेऽपि स द्रष्टव्यः ।
ननु यन्त्रक एव देवतावाच्याग्निशब्दः श्रूयते तत्राग्निदेवताविशिष्टं देयवदग्नीषोमीयस्यापि प्रतीतिः कुतो नेति शङ्कानुत्पत्तये आह-*केवलादिति । अस्याग्नेरित्यत्रान्वयः । अग्नेः-अग्निपदात्-*आग्नेयादौ । “आग्नेयोऽष्टाकपाल" इत्यादौ। तथा च यन्त्र सोमादिपदासमभिव्याहृताग्निपदस्य प्रकृतित्वम् । तथा "आग्नेयोऽष्टाकपालोमावास्याम्”इत्यादौ देवतान्तरोपस्थापकपदाभावादग्निमात्रदेवताकमेव द्रव्यम्प्रतिपादयति-*तद्धित इति। 'सिद्धन्त्वेकदेशत्वात् इति “पदार्थः पदार्थेनान्वेति, नतु पदार्थैकदेशेन इति व्युत्पत्तिविरोधादित्यादिवैशिष्टयनियामकपूर्वोक्तसम्बन्धे त्यागोद्देश्यत्वं वेदबोधितद्रव्यस्वामित्वप्रकारकेच्छाविषयत्वरूपम् । एतदेव च देवतात्वम्। तेन ब्राह्मणादेावृत्तिः । “आग्नेयो मन्त्रः" इत्यादौ वैशिष्ट्यनियामकसम्बन्धस्तु त्यागाङ्गधारणकर्मत्वमेव । एवञ्च देयमित्युपलक्षणमिति बोधयम् ॥ १३॥ . • नन्विन्द्रादिपदाद्देवताया लाभात्तदन्तर्भावेण तद्धितस्य शक्तिकल्पनवैयर्थ्यमिति
४५ द० ५०