________________
॥ अथ देवताप्रत्ययार्थनिर्णयः॥ "सास्य देवता" (पा० सू० ४।२।२४) इत्यत्र देवताविशिष्टं देयं प्रत्ययार्थः। ऐन्द्री वैश्वदेवीत्यादाविन्द्रादेवतात्वोपस्थापकान्तराभावात् । तेन रूपेणोपस्थितये शक्तिकल्पनावश्यकत्वात्। अत एव
श्रामिक्षां देवतायुक्तां वदत्येवैष तद्धितः । अमिक्षापदसान्निध्यात्तस्यैव विषयार्पणम् ॥ इति । ।
दर्पणः . .
अथ देवताप्रत्ययार्थनिर्णयः। ननु देवताया इन्द्रादिपदाल्लाभेन तदन्तर्भावेण तद्धितशक्तिकल्पनमनर्थकमत आह-*देवतात्वोपस्थापकेति ॥ इन्द्रत्वेन रूपेण देवतोपस्थितावपि देवतात्वेन रूपेण तदुपस्थापकाभावादित्यर्थः । *तेन रूपेणेति ॥ देवतात्वेन रूपेणेन्द्रोपस्थितये इत्यर्थः । अन्यथा
तद्धितेन चतुझं वा मन्त्रलिङ्गन वा पुनः ।
देवतासङ्गतिस्तत्र दुर्बलं च परं परम् ॥ इति पीमांसकसिद्धान्तासङ्गतिरिति भावः । द्रव्यस्य देवतासम्बन्धित्वं च तदुद्. देश्यकत्यागकर्मत्वं त्यागोदेश्यत्वमपि वेदबोधिताबाधितद्रव्यस्वामित्वप्रकारेणेच्छा. विषयत्वम् । तदेव च देवतात्वम् । नातो घृतादिसम्प्रदानब्राह्मणस्य त्यागोदेश्यत्वेऽपि देवतात्वम् । तस्य तत्स्वामित्वाबोधात् 'ऐन्द्रो मन्त्र' इत्यादौ मन्त्रस्य तद्देवताकत्वं च न तदुद्देश्यकत्यागकरणत्वम् । विनापि मन्त्रमिच्छाविशेषात्मकत्या. गोत्पत्त्याऽव्यभिचारात् । किन्तु त्यागाङ्गोच्चारणकत्वम् । एवञ्च देवतासम्बन्धी प्रत्ययार्थः। ___ नतु तदेवताकत्वम् , ऐन्द्रं हविः' इति सामानाधिकरण्यानुपपत्तेः । स चामिक्षा. दिपदसमभिव्याहारे तत्तद्रव्येण प्रतीयते । देयं प्रत्ययार्थः' इति तु तस्यामिक्षादिपदसमभिव्याहारे दानकर्मत्वेनापि प्रतीतेरित्यभिप्रेत्योक्तमिति भावः । उक्तार्थे सम्म. तिमाह-*अत एवेति ॥ देवतासम्बन्धिनः प्रत्ययार्थत्वादेवेत्यर्थः ॥ *सान्निध्या. दिति ॥ 'सामिक्षा वैश्वदेवीइत्यत्रामिक्षापदसमभिव्याहारादित्यर्थः ॥ *विषयार्प.
परीक्षा
अथ देवतादिप्रत्ययार्थनिर्णः। ' तद्धितप्रसङ्गादाह-*सास्येति । *देवताविशिष्टन्देयमिति । तदुद्देश्यकत्यागकर्मत्वसम्बन्धेन देवताविशिष्टं दानकर्म "सास्यदेवता"इति सूत्रविहितप्रत्ययार्थ इत्यर्थः । *अत एव*-देवताविशिष्टदेयस्य प्रत्ययार्थत्वादेव । तद्धित इति । अस्य मीमांसकैरुक्तमित्यत्रान्वयः। . ननु "सास्याइतिसूत्रे आमिक्षापदाभावादामिक्षामित्यनुपपन्नमत आह-*आमिक्षापदेति । *सान्निध्यादिति । तस्य "तप्ते पयसि दध्यानयति, सा वैश्वदेव्याभिक्षा वाजिभ्यो वाजिनम्"इति वाक्ये सान्निध्यापादानादित्यर्थः । *तस्यैव विषयापर्ण